१.१९२.१वैशंपायन उवाच
१.१९२.२ततो राज्ञां चरैराप्तैश्चारः समुपनीयत
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा
१.१९२.३येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः
१.१९२.४यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली
त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे
१.१९२.५न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः
१.१९२.६ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत
१.१९२.७सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः
१.१९२.८धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्
कर्मणा सुनृशंसेन पुरोचनकृतेन वै
१.१९२.९वृत्ते स्वयंवरे चैव राजानः सर्व एव ते
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्
१.१९२.१०अथ दुर्योधनो राजा विमना भ्रातृभिः सह
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
१.१९२.११विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत्
१.१९२.१२यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्
१.१९२.१३दैवं तु परमं मन्ये पौरुषं तु निरर्थकम्
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः
१.१९२.१४एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्
विविशुर्हास्तिनपुरं दीना विगतचेतसः
१.१९२.१५त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च
१.१९२.१६धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम्
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्
१.१९२.१७विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्
१.१९२.१८ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः
१.१९२.१९वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत
१.१९२.२०मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः
१.१९२.२१अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा
१.१९२.२२अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च
तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान्
१.१९२.२३धृतराष्ट्र उवाच
१.१९२.२४यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम
सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः
१.१९२.२५को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः
१.१९२.२६वैशंपायन उवाच
१.१९२.२७तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः
१.१९२.२८ततो दुर्योधनश्चैव राधेयश्च विशां पते
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा
१.१९२.२९संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम्
१.१९२.३०सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर
१.१९२.३१अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः
१.१९२.३२ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्