१.१९८.१धृतराष्ट्र उवाच
१.१९८.२भीष्मः शांतनवो विद्वान्द्रोणश्च भगवानृषिः
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम्
१.१९८.३यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः
तथैव धर्मतः सर्वे मम पुत्रा न संशयः
१.१९८.४यथैव मम पुत्राणामिदं राज्यं विधीयते
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः
१.१९८.५क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्
तया च देवरूपिण्या कृष्णया सह भारत
१.१९८.६दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः
१.१९८.७दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः
दिष्ट्या मम परं दुःखमपनीतं महाद्युते
१.१९८.८वैशंपायन उवाच
१.१९८.९ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्
सकाशं यज्ञसेनस्य पाण्डवानां च भारत
१.१९८.१०तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्
१.१९८.११स चापि प्रतिजग्राह धर्मेण विदुरं ततः
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्
१.१९८.१२ददर्श पाण्डवांस्तत्र वासुदेवं च भारत
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः
१.१९८.१३तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम्
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः
१.१९८.१४पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्
प्रददौ चापि रत्नानि विविधानि वसूनि च
१.१९८.१५पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः
१.१९८.१६प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः
द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च
१.१९८.१७राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः
१.१९८.१८अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप
१.१९८.१९तथा भीष्मः शांतनवः कौरवैः सह सर्वशः
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति
१.१९८.२०भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति
१.१९८.२१धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमीयिवान्
कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः
१.१९८.२२न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह
१.१९८.२३एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्
द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम्
१.१९८.२४विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा
१.१९८.२५कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः
१.१९८.२६स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम्
गमनं सहदाराणामेतदागमनं मम
१.१९८.२७विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया