१०. सौप्तिकपर्व
१०.२.१कृप उवाच

१०.२.२श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो
ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज

१०.२.३आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः
दैवे पुरुषकारे च परं ताभ्यां न विद्यते

१०.२.४न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः

१०.२.५ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः

१०.२.६पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम्
कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम्

१०.२.७उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम्
व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः

१०.२.८प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी

१०.२.९तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते
प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः

१०.२.१०ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि

१०.२.११कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्

१०.२.१२उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम्
अफलं दृश्यते लोके सम्यगप्युपपादितम्

१०.२.१३तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते

१०.२.१४प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि
अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम्

१०.२.१५चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छया
यो वा न लभते कृत्वा दुर्दशौ तावुभावपि

१०.२.१६शक्नोति जीवितुं दक्षो नालसः सुखमेधते
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः

१०.२.१७यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम्
नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति

१०.२.१८अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः
स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः

१०.२.१९एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा
स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः

१०.२.२०हीनं पुरुषकारेण यदा दैवेन वा पुनः
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्
हीनं पुरुषकारेण कर्म त्विह न सिध्यति

१०.२.२१दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते
दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते

१०.२.२२सम्यगीहा पुनरियं यो वृद्धानुपसेवते
आपृच्छति च यच्छ्रेयः करोति च हितं वचः

१०.२.२३उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः
तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते

१०.२.२४वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्

१०.२.२५रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः

१०.२.२६सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना
असमर्थ्य समारब्धो मूढत्वादविचिन्तितः

१०.२.२७हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः

१०.२.२८पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति
तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः

१०.२.२९अन्वावर्तामहि वयं यत्तु तं पापपूरुषम्
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्

१०.२.३०अनेन तु ममाद्यापि व्यसनेनोपतापिता
बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते

१०.२.३१मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः
ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्

१०.२.३२ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह
उपपृच्छामहे गत्वा विदुरं च महामतिम्

१०.२.३३ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम्
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः

१०.२.३४अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित्
कृते पुरुषकारे च येषां कार्यं न सिध्यति
दैवेनोपहतास्ते तु नात्र कार्या विचारणा