११.९.१जनमेजय उवाच
११.९.२गते भगवति व्यासे धृतराष्ट्रो महीपतिः
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि
११.९.३वैशंपायन उवाच
११.९.४एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः
संजयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत
११.९.५क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः
११.९.६एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्
शोकविप्रहतज्ञानो यानमेवान्वपद्यत
११.९.७गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्
११.९.८ताः समासाद्य राजानं भृशं शोकसमन्विताः
आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः
११.९.९ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्
११.९.१०ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु
आकुमारं पुरं सर्वमभवच्छोककर्शितम्
११.९.११अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि
पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः
११.९.१२प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्
११.९.१३श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन्
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः
११.९.१४तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने
११.९.१५प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि
दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम्
११.९.१६विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः
शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे
११.९.१७व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्
११.९.१८परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः
ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम्
११.९.१९ताभिः परिवृतो राजा रुदतीभिः सहस्रशः
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति
११.९.२०शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः
११.९.२१तासां विक्रोशमानानामार्तानां कुरुसंक्षये
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत
११.९.२२युगान्तकाले संप्राप्ते भूतानां दह्यतामिव
अभावः स्यादयं प्राप्त इति भूतानि मेनिरे
११.९.२३भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्