१२.१५३.१युधिष्ठिर उवाच
१२.१५३.२अनर्थानामधिष्ठानमुक्तो लोभः पितामह
अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः
१२.१५३.३भीष्म उवाच
१२.१५३.४करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम्
प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम्
१२.१५३.५अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम्
अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति
१२.१५३.६युधिष्ठिर उवाच
१२.१५३.७अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ
मूलं योगं गतिं कालं कारणं हेतुमेव च
१२.१५३.८श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव
अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते
१२.१५३.९भीष्म उवाच
१२.१५३.१०रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता
कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च
१२.१५३.११इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता
अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः
१२.१५३.१२एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि
विस्तरेण महाबाहो शृणु तच्च विशां पते
१२.१५३.१३उभावेतौ समफलौ समदोषौ च भारत
अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव
१२.१५३.१४लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते
स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम्
१२.१५३.१५मूलं लोभस्य महतः कालात्मगतिरेव च
छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि
१२.१५३.१६तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत्
१२.१५३.१७जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः
१२.१५३.१८प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना
त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि