१२.१७५.१युधिष्ठिर उवाच
१२.१७५.२कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्
प्रलये च कमभ्येति तन्मे ब्रूहि पितामह
१२.१७५.३ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः
१२.१७५.४कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्
१२.१७५.५कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्
१२.१७५.६भीष्म उवाच
१२.१७५.७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते
१२.१७५.८कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत
१२.१७५.९ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः
१२.१७५.१०कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्
१२.१७५.११कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
परलोकमिमं चापि सर्वं शंसतु नो भवान्
१२.१७५.१२एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्
१२.१७५.१३मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस्तथाभेद्योऽजरामरः
१२.१७५.१४अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च
१२.१७५.१५सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः
१२.१७५.१६आकाशादभवद्वारि सलिलादग्निमारुतौ
अग्निमारुतसंयोगात्ततः समभवन्मही
१२.१७५.१७ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः
१२.१७५.१८अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः
१२.१७५.१९शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा
१२.१७५.२०पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते
१२.१७५.२१नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ
दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः
१२.१७५.२२स एव भगवान्विष्णुरनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः
१२.१७५.२३अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया
१२.१७५.२४भरद्वाज उवाच
१२.१७५.२५गगनस्य दिशां चैव भूतलस्यानिलस्य च
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः
१२.१७५.२६भृगुरुवाच
१२.१७५.२७अनन्तमेतदाकाशं सिद्धचारणसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते
१२.१७५.२८ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः
तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः
१२.१७५.२९ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद
१२.१७५.३०उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि
१२.१७५.३१पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च
१२.१७५.३२रसातलान्ते सलिलं जलान्ते पन्नगाधिपः
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्
१२.१७५.३३एवमन्तं भगवतः प्रमाणं सलिलस्य च
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि
१२.१७५.३४अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात्
१२.१७५.३५पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्
१२.१७५.३६सिद्धानां देवतानां च यदा परिमिता गतिः
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः
१२.१७५.३७यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः
१२.१७५.३८ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः
१२.१७५.३९भरद्वाज उवाच
१२.१७५.४०पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे
१२.१७५.४१भृगुरुवाच
१२.१७५.४२मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते
१२.१७५.४३कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः