१२.२११.१युधिष्ठिर उवाच
१२.२११.२केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान्
१२.२११.३भीष्म उवाच
१२.२११.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम्
१२.२११.५जनको जनदेवस्तु मिथिलायां जनाधिपः
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
१२.२११.६तस्य स्म शतमाचार्या वसन्ति सततं गृहे
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः
१२.२११.७स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये
आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति
१२.२११.८तत्र पञ्चशिखो नाम कापिलेयो महामुनिः
परिधावन्महीं कृत्स्नां जगाम मिथिलामपि
१२.२११.९सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये
सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः
१२.२११.१०ऋषीणामाहुरेकं यं कामादवसितं नृषु
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
१२.२११.११यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्
स मन्ये तेन रूपेण विस्मापयति हि स्वयम्
१२.२११.१२आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्
१२.२११.१३तं समासीनमागम्य मण्डलं कापिलं महत्
पुरुषावस्थमव्यक्तं परमार्थं निबोधयत्
१२.२११.१४इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः
१२.२११.१५यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्
१२.२११.१६तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी
१२.२११.१७तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
१२.२११.१८एतन्मे भगवानाह कापिलेयाय संभवम्
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
१२.२११.१९सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम्
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
१२.२११.२०जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात्
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्
१२.२११.२१तस्मै परमकल्याय प्रणताय च धर्मतः
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते
१२.२११.२२जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत्
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
१२.२११.२३यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः
तदनाश्वासिकं मोघं विनाशि चलमध्रुवम्
१२.२११.२४दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके
आगमात्परमस्तीति ब्रुवन्नपि पराजितः
१२.२११.२५अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्
१२.२११.२६अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते
अजरोऽयममृत्युश्च राजासौ मन्यते तथा
१२.२११.२७अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम्
१२.२११.२८प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि
प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन
१२.२११.२९यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः
१२.२११.३०रेतो वटकणीकायां घृतपाकाधिवासनम्
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्
१२.२११.३१प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम्
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः
१२.२११.३२न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते
१२.२११.३३अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम्
कारणं लोभमोहौ तु दोषाणां च निषेवणम्
१२.२११.३४अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम्
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः
१२.२११.३५तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि
अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसंक्षयम्
१२.२११.३६यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः
कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः
१२.२११.३७एवं सति च का प्रीतिर्दानविद्यातपोबलैः
यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते
१२.२११.३८यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत्
सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः
१२.२११.३९तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत्
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते
१२.२११.४०ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये
यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः
१२.२११.४१जरया हि परीतस्य मृत्युना वा विनाशिना
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति
१२.२११.४२इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च
१२.२११.४३लोकयात्राविधानं च दानधर्मफलागमः
यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः
१२.२११.४४इति सम्यङ्मनस्येते बहवः सन्ति हेतवः
एतदस्तीदमस्तीति न किंचित्प्रतिपद्यते
१२.२११.४५तेषां विमृशतामेवं तत्तत्समभिधावताम्
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्
१२.२११.४६एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
१२.२११.४७अर्थांस्तथात्यन्तसुखावहांश्च; लिप्सन्त एते बहवो विशुल्काः
महत्तरं दुःखमभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति
१२.२११.४८विनाशिनो ह्यध्रुवजीवितस्य; किं बन्धुभिर्मित्रपरिग्रहैश्च
विहाय यो गच्छति सर्वमेव; क्षणेन गत्वा न निवर्तते च
१२.२११.४९भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति
इतीदमालक्ष्य कुतो रतिर्भवे;द्विनाशिनो ह्यस्य न शर्म विद्यते
१२.२११.५०इदमनुपधि वाक्यमच्छलं; परमनिरामयमात्मसाक्षिकम्
नरपतिरभिवीक्ष्य विस्मितः; पुनरनुयोक्तुमिदं प्रचक्रमे