१२.२२.१वैशंपायन उवाच
१२.२२.२तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत्
विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम्
१२.२२.३क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम्
जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम्
१२.२२.४क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम्
विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर
१२.२२.५ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः
क्षत्रियाणां च विहितं संग्रामे निधनं विभो
१२.२२.६क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः
वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे
१२.२२.७ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम्
१२.२२.८न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम्
१२.२२.९स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ
राजा मनीषी निपुणो लोके दृष्टपरावरः
१२.२२.१०त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि
क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम्
१२.२२.११जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव
१२.२२.१२इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत्
ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव
१२.२२.१३तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते
तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम्
१२.२२.१४स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः
१२.२२.१५मा त्वमेवंगते किंचित्क्षत्रियर्षभ शोचिथाः
गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम्
१२.२२.१६भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ
दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम्