१२.२४.१युधिष्ठिर उवाच
१२.२४.२भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्
१२.२४.३व्यास उवाच
१२.२४.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ
१२.२४.५तयोरावसथावास्तां रमणीयौ पृथक्पृथक्
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु
१२.२४.६ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत्
यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात्
१२.२४.७सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा
फलानि शातयामास सम्यक्परिणतान्युत
१२.२४.८तान्युपादाय विस्रब्धो भक्षयामास स द्विजः
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत्
१२.२४.९भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्
कुतः फलान्यवाप्तानि हेतुना केन खादसि
१२.२४.१०सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च
इत एव गृहीतानि मयेति प्रहसन्निव
१२.२४.११तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्
गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै
१२.२४.१२अदत्तादानमेवेदं कृतं पार्थिवसत्तम
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय
शीघ्रं धारय चौरस्य मम दण्डं नराधिप
१२.२४.१३इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम्
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः
१२.२४.१४सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्
अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः
१२.२४.१५तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम्
किमागमनमाचक्ष्व भगवन्कृतमेव तत्
१२.२४.१६एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्
प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि
१२.२४.१७अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ
भक्षितानि मया राजंस्तत्र मां शाधि माचिरम्
१२.२४.१८सुद्युम्न उवाच
१२.२४.१९प्रमाणं चेन्मतो राजा भवतो दण्डधारणे
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ
१२.२४.२०स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः
१२.२४.२१व्यास उवाच
१२.२४.२२छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना
नान्यं वै वरयामास तस्माद्दण्डादृते वरम्
१२.२४.२३ततः स पृथिवीपालो लिखितस्य महात्मनः
करौ प्रच्छेदयामास धृतदण्डो जगाम सः
१२.२४.२४स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्
धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि
१२.२४.२५शङ्ख उवाच
१२.२४.२६न कुप्ये तव धर्मज्ञ न च दूषयसे मम
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता
१२.२४.२७स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः
१२.२४.२८व्यास उवाच
१२.२४.२९तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे
१२.२४.३०प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ
१२.२४.३१ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया
मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते
१२.२४.३२लिखित उवाच
१२.२४.३३किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम
१२.२४.३४शङ्ख उवाच
१२.२४.३५एवमेतन्मया कार्यं नाहं दण्डधरस्तव
स च पूतो नरपतिस्त्वं चापि पितृभिः सह
१२.२४.३६व्यास उवाच
१२.२४.३७स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा
१२.२४.३८एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः
१२.२४.३९भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्