१२.३०६.१याज्ञवल्क्य उवाच
१२.३०६.२अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप
१२.३०६.३यथार्षेणेह विधिना चरतावमतेन ह
मयादित्यादवाप्तानि यजूंषि मिथिलाधिप
१२.३०६.४महता तपसा देवस्तपिष्ठः सेवितो मया
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ
१२.३०६.५वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः
१२.३०६.६ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्
१२.३०६.७ततो मां भगवानाह वितरिष्यामि ते द्विज
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति
१२.३०६.८ततो मामाह भगवानास्यं स्वं विवृतं कुरु
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती
१२.३०६.९ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः
१२.३०६.१०ततो विदह्यमानं मामुवाच भगवान्रविः
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि
१२.३०६.११शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज
१२.३०६.१२कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति
१२.३०६.१३प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम्
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत
१२.३०६.१४ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्
१२.३०६.१५ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता
ओंकारमादितः कृत्वा मम देवी सरस्वती
१२.३०६.१६ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम्
तपतां च वरिष्ठाय निषण्णस्तत्परायणः
१२.३०६.१७ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्
चक्रे सपरिशेषं च हर्षेण परमेण ह
१२.३०६.१८कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम्
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः
१२.३०६.१९ततः सशिष्येण मया सूर्येणेव गभस्तिभिः
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः
१२.३०६.२०मिषतो देवलस्यापि ततोऽर्धं हृतवानहम्
स्ववेददक्षिणायाथ विमर्दे मातुलेन ह
१२.३०६.२१सुमन्तुनाथ पैलेन तथा जैमिनिना च वै
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः
१२.३०६.२२दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ
तथैव लोमहर्षाच्च पुराणमवधारितम्
१२.३०६.२३बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप
१२.३०६.२४कर्तुं शतपथं वेदमपूर्वं कारितं च मे
यथाभिलषितं मार्गं तथा तच्चोपपादितम्
१२.३०६.२५शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम्
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः
१२.३०६.२६शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्
१२.३०६.२७किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत
१२.३०६.२८विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा
१२.३०६.२९विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च
ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च
१२.३०६.३०वेद्यावेद्यं तथा राजन्नचलं चलमेव च
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम्
१२.३०६.३१अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत्
१२.३०६.३२मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये
बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः
१२.३०६.३३ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम्
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम्
१२.३०६.३४तत्रोपनिषदं चैव परिशेषं च पार्थिव
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्
१२.३०६.३५चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता
१२.३०६.३६अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा
श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह
१२.३०६.३७विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम्
१२.३०६.३८त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते
१२.३०६.३९अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम्
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा
१२.३०६.४०ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते
१२.३०६.४१कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः
१२.३०६.४२तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु
१२.३०६.४३चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः
अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः
१२.३०६.४४अजावुभावप्रजौ च अक्षयौ चाप्युभावपि
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः
१२.३०६.४५अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते
१२.३०६.४६गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी
१२.३०६.४७विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः
१२.३०६.४८जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम
१२.३०६.४९साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते
वेदवेद्यं न जानीते वेदभारवहो हि सः
१२.३०६.५०यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम्
१२.३०६.५१तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः
१२.३०६.५२द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना
यथास्य जन्मनिधने न भवेतां पुनः पुनः
१२.३०६.५३अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः
१२.३०६.५४यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप
तदा स केवलीभूतः षड्विंशमनुपश्यति
१२.३०६.५५अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः
तस्य द्वावनुपश्येत तमेकमिति साधवः
१२.३०६.५६तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम्
जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः
१२.३०६.५७विश्वावसुरुवाच
१२.३०६.५८पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति
१२.३०६.५९जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम्
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः
१२.३०६.६०भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः
१२.३०६.६१नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः
१२.३०६.६२कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः
१२.३०६.६३दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत
१२.३०६.६४तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्
१२.३०६.६५न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः
कथ्यते देवलोके च पितृलोके च ब्राह्मण
१२.३०६.६६ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः
पतिश्च तपतां शश्वदादित्यस्तव भाषते
१२.३०६.६७सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः
१२.३०६.६८निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम्
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा
१२.३०६.६९याज्ञवल्क्य उवाच
१२.३०६.७०कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम
जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम्
१२.३०६.७१अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्
१२.३०६.७२अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम्
सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्
१२.३०६.७३पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ
षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति
१२.३०६.७४पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः
१२.३०६.७५मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात्
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते
सस्नेहः सहवासाच्च साभिमानश्च नित्यशः
१२.३०६.७६स निमज्जति कालस्य यदैकत्वं न बुध्यते
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः
१२.३०६.७७यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः
तदा स केवलीभूतः षड्विंशमनुपश्यति
१२.३०६.७८अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः
१२.३०६.७९तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्
जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः
१२.३०६.८०यदा स केवलीभूतः षड्विंशमनुपश्यति
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति
१२.३०६.८१एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्
१२.३०६.८२पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत्
१२.३०६.८३विश्वावसुरुवाच
१२.३०६.८४तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत्
स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते
१२.३०६.८५याज्ञवल्क्य उवाच
१२.३०६.८६एवमुक्त्वा संप्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन
तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा
१२.३०६.८७ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र
तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै
१२.३०६.८८सांख्याः सर्वे सांख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च
ये चाप्यन्ये मोक्षकामा मनुष्या;स्तेषामेतद्दर्शनं ज्ञानदृष्टम्
१२.३०६.८९ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः
१२.३०६.९०प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम्
श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम्
१२.३०६.९१सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम्
१२.३०६.९२ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः
नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः
१२.३०६.९३अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम्
तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम्
१२.३०६.९४तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते
तस्थौ ब्रह्मा तस्थिवांश्चापरो य;स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः
१२.३०६.९५यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व
राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम्
१२.३०६.९६भीष्म उवाच
१२.३०६.९७स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा
१२.३०६.९८गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्
१२.३०६.९९गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा
१२.३०६.१००विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः
१२.३०६.१०१सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन्
१२.३०६.१०२अनन्तमिति कृत्वा स नित्यं केवलमेव च
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च
१२.३०६.१०३जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप
१२.३०६.१०४पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः
इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम्
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव
१२.३०६.१०५दीयते यच्च लभते दत्तं यच्चानुमन्यते
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै
१२.३०६.१०६आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत्
एवं मन्यस्व सततमन्यथा मा विचिन्तय
१२.३०६.१०७यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता
१२.३०६.१०८न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते
१२.३०६.१०९तथैव महतः स्थानमाहंकारिकमेव च
अहंकारात्परं चापि स्थानानि समवाप्नुयात्
१२.३०६.११०ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत्
१२.३०६.१११एतन्मयाप्तं जनकात्पुरस्ता;त्तेनापि चाप्तं नृप याज्ञवल्क्यात्
ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः
१२.३०६.११२दुर्गं जन्म निधनं चापि राज;न्न भूतिकं ज्ञानविदो वदन्ति
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ
१२.३०६.११३तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम्
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ;मुपास्य वै तत्त्वमृषिर्भविष्यसि
१२.३०६.११४उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः
यदुपगणितशाश्वताव्ययं त;च्छुभममृतत्वमशोकमृच्छतीति