१२. शान्तिपर्व
१२.३१२.१भीष्म उवाच

१२.३१२.२स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः

१२.३१२.३मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो

१२.३१२.४श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्
अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि

१२.३१२.५पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः
योगशास्त्रं च निखिलं कापिलं चैव भारत

१२.३१२.६स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्

१२.३१२.७उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः

१२.३१२.८पितुर्नियोगादगमन्मैथिलं जनकं नृपम्
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्

१२.३१२.९उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै

१२.३१२.१०आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः

१२.३१२.११अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्

१२.३१२.१२स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया

१२.३१२.१३एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्

१२.३१२.१४स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च
बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा

१२.३१२.१५मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा
क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत्

१२.३१२.१६स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्
आर्यावर्तमिमं देशमाजगाम महामुनिः

१२.३१२.१७पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्
अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव

१२.३१२.१८पत्तनानि च रम्याणि स्फीतानि नगराणि च
रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति

१२.३१२.१९उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः

१२.३१२.२०सोऽचिरेणैव कालेन विदेहानाससाद ह
रक्षितान्धर्मराजेन जनकेन महात्मना

१२.३१२.२१तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान्

१२.३१२.२२स्फीतांश्च शालियवसैर्हंससारससेवितान्
पद्मिनीभिश्च शतशः श्रीमतीभिरलंकृतान्

१२.३१२.२३स विदेहानतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यमाससाद महर्द्धिमत्

१२.३१२.२४हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः

१२.३१२.२५मनसा तं वहन्भारं तमेवार्थं विचिन्तयन्
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह

१२.३१२.२६तस्या द्वारं समासाद्य द्वारपालैर्निवारितः
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह

१२.३१२.२७स राजमार्गमासाद्य समृद्धजनसंकुलम्
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह

१२.३१२.२८तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन्
तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत

१२.३१२.२९न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नापैति च तथातपात्

१२.३१२.३०तेषां तु द्वारपालानामेकः शोकसमन्वितः
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम्

१२.३१२.३१पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः

१२.३१२.३२तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन्
छायायामातपे चैव समदर्शी महाद्युतिः

१२.३१२.३३तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः

१२.३१२.३४तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्

१२.३१२.३५तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम्
अर्हमासनमादिश्य निश्चक्राम ततः पुनः

१२.३१२.३६तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः

१२.३१२.३७संलापोल्लापकुशला नृत्तगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः

१२.३१२.३८कामोपचारकुशला भावज्ञाः सर्वकोविदाः
परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन्

१२.३१२.३९पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च
देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन्

१२.३१२.४०तस्य भुक्तवतस्तात तदन्तःपुरकाननम्
सुरम्यं दर्शयामासुरेकैकश्येन भारत

१२.३१२.४१क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम्
उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा

१२.३१२.४२आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति

१२.३१२.४३तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः

१२.३१२.४४पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्

१२.३१२.४५पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः

१२.३१२.४६ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत

१२.३१२.४७अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः
तां च रात्रिं नृपकुले वर्तयामास भारत