१२.३१५.१भीष्म उवाच
१२.३१५.२एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा
१२.३१५.३उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्
१२.३१५.४अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः
१२.३१५.५शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने
वेदाननेकधा कर्तुं यदि ते रुचितं विभो
१२.३१५.६शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्
१२.३१५.७क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्
१२.३१५.८तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च
१२.३१५.९अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा
१२.३१५.१०पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः
१२.३१५.११अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्
१२.३१५.१२तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनमब्रवीत्काले मधुराक्षरया गिरा
१२.३१५.१३भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव
१२.३१५.१४ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा
१२.३१५.१५न भ्राजते यथापूर्वं निषादानामिवालयः
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः
१२.३१५.१६ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा
१२.३१५.१७नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण
१२.३१५.१८एतन्मनोनुकूलं मे भवानर्हति भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली
१२.३१५.१९त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते
१२.३१५.२०यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः
१२.३१५.२१नारद उवाच
१२.३१५.२२अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम्
१२.३१५.२३अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः
१२.३१५.२४भीष्म उवाच
१२.३१५.२५नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः
१२.३१५.२६शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव
१२.३१५.२७तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः
१२.३१५.२८ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
शुको वारितमात्रस्तु कौतूहलसमन्वितः
१२.३१५.२९अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्
१२.३१५.३०शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्
१२.३१५.३१दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः
१२.३१५.३२आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना
न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय
१२.३१५.३३देवयानचरो विष्णोः पितृयानश्च तामसः
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः
१२.३१५.३४पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः
१२.३१५.३५तत्र देवगणाः साध्याः समभूवन्महाबलाः
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः
१२.३१५.३६उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः
अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम्
१२.३१५.३७अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्
१२.३१५.३८प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते
१२.३१५.३९प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः
१२.३१५.४०अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः
आवहो नाम संवाति द्वितीयः श्वसनो नदन्
१२.३१५.४१उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः
१२.३१५.४२यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः
१२.३१५.४३योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति
उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः
१२.३१५.४४समुह्यमाना बहुधा येन नीलाः पृथग्घनाः
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः
१२.३१५.४५संहता येन चाविद्धा भवन्ति नदतां नदाः
रक्षणार्थाय संभूता मेघत्वमुपयान्ति च
१२.३१५.४६योऽसौ वहति देवानां विमानानि विहायसा
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः
१२.३१५.४७येन वेगवता रुग्णा रूक्षेणारुजता रसान्
वायुना विहता मेघा न भवन्ति बलाहकाः
१२.३१५.४८दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्
पञ्चमः स महावेगो विवहो नाम मारुतः
१२.३१५.४९यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति
१२.३१५.५०दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
योनिरंशुसहस्रस्य येन भाति वसुंधरा
१२.३१५.५१यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च
षष्ठः परिवहो नाम स वायुर्जवतां वरः
१२.३१५.५२सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ
१२.३१५.५३सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते
१२.३१५.५४यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः
१२.३१५.५५येन सृष्टः पराभूतो यात्येव न निवर्तते
परावहो नाम परो वायुः स दुरतिक्रमः
१२.३१५.५६एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः
१२.३१५.५७एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
कम्पितः सहसा तेन वायुनाभिप्रवायता
१२.३१५.५८विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः
सहसोदीर्यते तात जगत्प्रव्यथते तदा
१२.३१५.५९तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्
१२.३१५.६०एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा