१२. शान्तिपर्व
१२.३४०.१युधिष्ठिर उवाच

१२.३४०.२धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्

१२.३४०.३भीष्म उवाच

१२.३४०.४सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

१२.३४०.५यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

१२.३४०.६अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा

१२.३४०.७सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा

१२.३४०.८स कदाचिन्महेष्वास देवराजालयं गतः
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्

१२.३४०.९तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः
ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ

१२.३४०.१०यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्

१२.३४०.११न ह्यस्त्यविदितं लोके देवर्षे तव किंचन
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे

१२.३४०.१२तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम्

१२.३४०.१३यथा येन च कल्पेन स तस्मै द्विजसत्तमः
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु