१२.६५.१इन्द्र उवाच
१२.६५.२एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः
पाल्यो युष्माभिर्लोकसिंहैरुदारै;र्विपर्यये स्यादभावः प्रजानाम्
१२.६५.३भुवः संस्कारं राजसंस्कारयोग;मभैक्षचर्यां पालनं च प्रजानाम्
विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम्
१२.६५.४त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत
नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते
१२.६५.५बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति
नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः
१२.६५.६सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात्
चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च
१२.६५.७सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम्
स्वं स्वं धर्मं ये न चरन्ति वर्णा;स्तांस्तान्धर्मानयथावद्वदन्ति
१२.६५.८निर्मर्यादे नित्यमर्थे विनष्टा;नाहुस्तान्वै पशुभूतान्मनुष्यान्
यथा नीतिं गमयत्यर्थलोभा;च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः
१२.६५.९त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम्
एतत्कर्म ब्राह्मणस्याहुरग्र्य;मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः
१२.६५.१०चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथंचन
१२.६५.११अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते
कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः
१२.६५.१२यो विकर्मस्थितो विप्रो न स सन्मानमर्हति
कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः
१२.६५.१३एते धर्माः सर्ववर्णाश्च वीरै;रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः
तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे
१२.६५.१४मान्धातोवाच
१२.६५.१५यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः
शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः
१२.६५.१६ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः
१२.६५.१७कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः
मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः
१२.६५.१८एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर
१२.६५.१९इन्द्र उवाच
१२.६५.२०मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्
१२.६५.२१भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते
१२.६५.२२पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च
दानानि च यथाकालं द्विजेषु दद्युरेव ते
१२.६५.२३अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्
भरणं पुत्रदाराणां शौचमद्रोह एव च
१२.६५.२४दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता
पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः
१२.६५.२५एतान्येवंप्रकाराणि विहितानि पुरानघ
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव
१२.६५.२६मान्धातोवाच
१२.६५.२७दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि
१२.६५.२८इन्द्र उवाच
१२.६५.२९विनष्टायां दण्डनीतौ राजधर्मे निराकृते
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप
१२.६५.३०असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे
१२.६५.३१अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः
१२.६५.३२यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः
तदा धर्मो न चलते सद्भूतः शाश्वतः परः
१२.६५.३३परलोकगुरुं चैव राजानं योऽवमन्यते
न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित्
१२.६५.३४मानुषाणामधिपतिं देवभूतं सनातनम्
देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम्
१२.६५.३५प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत्
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति
१२.६५.३६प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्
स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम्
१२.६५.३७भीष्म उवाच
१२.६५.३८एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः
जगाम भवनं विष्णुरक्षरं परमं पदम्
१२.६५.३९एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ
कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः
१२.६५.४०अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः
१२.६५.४१आदौ प्रवर्तिते चक्रे तथैवादिपरायणे
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ