१२.८३.१भीष्म उवाच
१२.८३.२एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत
यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः
१२.८३.३ह्रियमाणममात्येन भृतो वा यदि वाभृतः
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर
१२.८३.४श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत्
अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत
१२.८३.५राजकोशस्य गोप्तारं राजकोशविलोपकाः
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः
१२.८३.६अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह
१२.८३.७कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
१२.८३.८स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः
पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः
१२.८३.९अधीये वायसीं विद्यां शंसन्ति मम वायसाः
अनागतमतीतं च यच्च संप्रति वर्तते
१२.८३.१०इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह
सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान्
१२.८३.११स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः
१२.८३.१२तमेव काकमादाय राजानं द्रष्टुमागमत्
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः
१२.८३.१३स स्म कौसल्यमागम्य राजामात्यमलंकृतम्
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्
१२.८३.१४असौ चासौ च जानीते राजकोशस्त्वया हृतः
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्
१२.८३.१५तथान्यानपि स प्राह राजकोशहरान्सदा
न चास्य वचनं किंचिदकृतं श्रूयते क्वचित्
१२.८३.१६तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह
तमतिक्रम्य सुप्तस्य निशि काकमपोथयन्
१२.८३.१७वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्
१२.८३.१८राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्
अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम्
१२.८३.१९मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः
अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः
१२.८३.२०संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः
अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम्
१२.८३.२१तथाविधस्य सुहृदः क्षन्तव्यं संविजानता
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता
१२.८३.२२तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत्
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्
१२.८३.२३ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि
करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि
१२.८३.२४मुनिरुवाच
१२.८३.२५ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम्
१२.८३.२६प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम्
अगतीकगतिर्ह्येषा या राज्ञा सह जीविका
१२.८३.२७आशीविषैश्च तस्याहुः संगतं यस्य राजभिः
बहुमित्राश्च राजानो बह्वमित्रास्तथैव च
१२.८३.२८तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम्
अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत्
१२.८३.२९नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता
१२.८३.३०प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम्
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः
१२.८३.३१आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः
१२.८३.३२दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात्
दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात्
१२.८३.३३देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्
इति राजन्मयः प्राह वर्तते च तथैव तत्
१२.८३.३४अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः
ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि
१२.८३.३५वायसश्चैव मे राजन्नन्तकायाभिसंहितः
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः
हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव
१२.८३.३६ये त्वादानपरा एव वसन्ति भवतो गृहे
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्
१२.८३.३७ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम्
अन्तरैरभिसंधाय राजन्सिध्यन्ति नान्यथा
१२.८३.३८तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम्
तैर्हि मे संधितो बाणः काके निपतितः प्रभो
१२.८३.३९छद्मना मम काकश्च गमितो यमसादनम्
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा
१२.८३.४०बहुनक्रझषग्राहां तिमिंगिलगणायुताम्
काकेन बडिशेनेमामतार्षं त्वामहं नदीम्
१२.८३.४१स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम्
दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव
१२.८३.४२अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते
राजदुर्गावतरणे नोपायं पण्डिता विदुः
१२.८३.४३गहनं भवतो राज्यमन्धकारतमोवृतम्
नेह विश्वसितुं शक्यं भवतापि कुतो मया
१२.८३.४४अतो नायं शुभो वासस्तुल्ये सदसती इह
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः
१२.८३.४५न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः
नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः
१२.८३.४६सीता नाम नदी राजन्प्लवो यस्यां निमज्जति
तथोपमामिमां मन्ये वागुरां सर्वघातिनीम्
१२.८३.४७मधुप्रपातो हि भवान्भोजनं विषसंयुतम्
असतामिव ते भावो वर्तते न सतामिव
आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव
१२.८३.४८दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता
नदी मधुरपानीया यथा राजंस्तथा भवान्
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि
१२.८३.४९यथाश्रित्य महावृक्षं कक्षः संवर्धते महान्
ततस्तं संवृणोत्येव तमतीत्य च वर्धते
१२.८३.५०तेनैवोपेन्धनो नूनं दावो दहति दारुणः
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय
१२.८३.५१भवतैव कृता राजन्भवता परिपालिताः
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम्
१२.८३.५२उषितं शङ्कमानेन प्रमादं परिरक्षता
अन्तःसर्प इवागारे वीरपत्न्या इवालये
शीलं जिज्ञासमानेन राज्ञश्च सहजीविना
१२.८३.५३कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः
१२.८३.५४जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तम
तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम्
१२.८३.५५अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्
भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः
विद्यते कारणं नान्यदिति मे नात्र संशयः
१२.८३.५६न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम्
अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात्
१२.८३.५७राजोवाच
१२.८३.५८भूयसा परिबर्हेण सत्कारेण च भूयसा
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम
१२.८३.५९ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे
भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम्
१२.८३.६०यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम्
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम्
१२.८३.६१मुनिरुवाच
१२.८३.६२अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु
ततः कारणमाज्ञाय पुरुषं पुरुषं जहि
१२.८३.६३एकदोषा हि बहवो मृद्नीयुरपि कण्टकान्
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते
१२.८३.६४वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः
स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः
१२.८३.६५राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम्
मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः
१२.८३.६६पितुः सखा च भवतः संमतः सत्यसंगरः
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते
१२.८३.६७सर्वकामान्परित्यज्य तपस्तप्तं तदा मया
स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति
१२.८३.६८उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि
१२.८३.६९भीष्म उवाच
१२.८३.७०ततो राजकुले नान्दी संजज्ञे भूयसी पुनः
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे
१२.८३.७१एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः
१२.८३.७२हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम्
तथा च कृतवान्राजा यथोक्तं तेन भारत