१३. अनुशासनपर्व
१३.२१.१भीष्म उवाच

१३.२१.२अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्

१३.२१.३अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत्

१३.२१.४शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम्

१३.२१.५अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा

१३.२१.६स तेन सुसुखोष्णेन तस्या हस्तसुखेन च
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः

१३.२१.७तत उत्थाय स मुनिस्तदा परमविस्मितः
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि

१३.२१.८तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत्
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम्

१३.२१.९सा चामृतरसप्रख्यमृषेरन्नमुपाहरत्
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः
व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः

१३.२१.१०अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत्
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते

१३.२१.११अष्टावक्र उवाच

१३.२१.१२न भद्रे परदारेषु मनो मे संप्रसज्जति
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च

१३.२१.१३भीष्म उवाच

१३.२१.१४सा तदा तेन विप्रेण तथा धृत्या निवर्तिता
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते

१३.२१.१५अष्टावक्र उवाच

१३.२१.१६नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति

१३.२१.१७स्त्र्युवाच

१३.२१.१८बाधते मैथुनं विप्र मम भक्तिं च पश्य वै
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि

१३.२१.१९अष्टावक्र उवाच

१३.२१.२०हरन्ति दोषजातानि नरं जातं यथेच्छकम्
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज

१३.२१.२१स्त्र्युवाच

१३.२१.२२शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि
भूमौ निपतमानायाः शरणं भव मेऽनघ

१३.२१.२३यदि वा दोषजातं त्वं परदारेषु पश्यसि
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज

१३.२१.२४न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि

१३.२१.२५अष्टावक्र उवाच

१३.२१.२६स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति

१३.२१.२७पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति

१३.२१.२८स्त्र्युवाच

१३.२१.२९कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम

१३.२१.३०अष्टावक्र उवाच

१३.२१.३१यथा मम तथा तुभ्यं यथा तव तथा मम
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत्

१३.२१.३२आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत्
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता

१३.२१.३३किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत्

१३.२१.३४यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम्