१३. अनुशासनपर्व
१३.३०.१भीष्म उवाच

१३.३०.२एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः

१३.३०.३सुदुष्करं वहन्योगं कृशो धमनिसंततः
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम्

१३.३०.४तं पतन्तमभिद्रुत्य परिजग्राह वासवः
वराणामीश्वरो दाता सर्वभूतहिते रतः

१३.३०.५शक्र उवाच

१३.३०.६मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्

१३.३०.७ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः
ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा

१३.३०.८ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति

१३.३०.९बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति

१३.३०.१०मतङ्ग उवाच

१३.३०.११किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते

१३.३०.१२ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो
सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः

१३.३०.१३यः पापेभ्यः पापतमस्तेषामधम एव सः
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम्

१३.३०.१४दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः

१३.३०.१५एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः
अहिंसादमदानस्थः कथं नार्हामि विप्रताम्

१३.३०.१६यथाकामविहारी स्यां कामरूपी विहंगमः
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर

१३.३०.१७इन्द्र उवाच

१३.३०.१८छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि

१३.३०.१९भीष्म उवाच

१३.३०.२०एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत
प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम्

१३.३०.२१एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा