१३. अनुशासनपर्व
१३.३८.१युधिष्ठिर उवाच

१३.३८.२स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम
स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह

१३.३८.३भीष्म उवाच

१३.३८.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया

१३.३८.५लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्

१३.३८.६तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे

१३.३८.७एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम्
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्

१३.३८.८नारद उवाच

१३.३८.९न त्वामविषये भद्रे नियोक्ष्यामि कथंचन
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने

१३.३८.१०भीष्म उवाच

१३.३८.११एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः

१३.३८.१२विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः
न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे

१३.३८.१३तामुवाच स देवर्षिः सत्यं वद सुमध्यमे
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते

१३.३८.१४इत्युक्ता सा कृतमतिरभवच्चारुहासिनी
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे

१३.३८.१५पञ्चचूडोवाच

१३.३८.१६कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

१३.३८.१७न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह

१३.३८.१८समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्

१३.३८.१९असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे

१३.३८.२०स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः

१३.३८.२१अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

१३.३८.२२नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते

१३.३८.२३न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन
न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु

१३.३८.२४यौवने वर्तमानानां मृष्टाभरणवाससाम्
नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः

१३.३८.२५याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः
अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः

१३.३८.२६पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने

१३.३८.२७यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु

१३.३८.२८अलाभात्पुरुषाणां हि भयात्परिजनस्य च
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः

१३.३८.२९चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः

१३.३८.३०नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः

१३.३८.३१इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः

१३.३८.३२कामानामपि दातारं कर्तारं मानसान्त्वयोः
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः

१३.३८.३३न कामभोगान्बहुलान्नालंकारार्थसंचयान्
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्

१३.३८.३४अन्तकः शमनो मृत्युः पातालं वडवामुखम्
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः

१३.३८.३५यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा
यतः पुमांसः प्रमदाश्च निर्मिता;स्तदैव दोषाः प्रमदासु नारद