१३.४०.१भीष्म उवाच
१३.४०.२एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप
१३.४०.३अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
यथा रक्षा कृता पूर्वं विपुलेन महात्मना
१३.४०.४प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ
यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप
१३.४०.५न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः
१३.४०.६इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम्
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्
१३.४०.७अथाभ्यगच्छन्देवास्ते पितामहमरिंदम
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः
१३.४०.८तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः
१३.४०.९पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्
असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः
१३.४०.१०ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा
१३.४०.११क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः
१३.४०.१२न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः
निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः
१३.४०.१३शय्यासनमलंकारमन्नपानमनार्यताम्
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः
१३.४०.१४न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन
अपि विश्वकृता तात कुतस्तु पुरुषैरिह
१३.४०.१५वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः
१३.४०.१६इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः
१३.४०.१७ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि
१३.४०.१८तस्य रूपेण संमत्ता देवगन्धर्वदानवाः
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः
१३.४०.१९नारीणां चरितज्ञश्च देवशर्मा महामुनिः
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत
१३.४०.२०पुरंदरं च जानीते परस्त्रीकामचारिणम्
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह
१३.४०.२१स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्
१३.४०.२२रक्षाविधानं मनसा स विचिन्त्य महातपाः
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्
१३.४०.२३यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम्
१३.४०.२४अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्
स हि रूपाणि कुरुते विविधानि भृगूद्वह
१३.४०.२५इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः
१३.४०.२६धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्
१३.४०.२७कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि
१३.४०.२८ततः स भगवांस्तस्मै विपुलाय महात्मने
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत
१३.४०.२९बहुमायः स विप्रर्षे बलहा पाकशासनः
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः
१३.४०.३०किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः
१३.४०.३१शिखी जटी चीरवासाः पुनर्भवति पुत्रक
बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः
१३.४०.३२गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च
१३.४०.३३प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च
प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः
१३.४०.३४शुकवायसरूपी च हंसकोकिलरूपवान्
सिंहव्याघ्रगजानां च रूपं धारयते पुनः
१३.४०.३५दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च
सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा
१३.४०.३६चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः
मक्षिकामशकादीनां वपुर्धारयतेऽपि च
१३.४०.३७न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्
अपि विश्वकृता तात येन सृष्टमिदं जगत्
१३.४०.३८पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा
वायुभूतश्च स पुनर्देवराजो भवत्युत
१३.४०.३९एवं रूपाणि सततं कुरुते पाकशासनः
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम्
१३.४०.४०यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम
क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान्
१३.४०.४१एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा
देवशर्मा महाभागस्ततो भरतसत्तम
१३.४०.४२विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत्
रक्षां च परमां चक्रे देवराजान्महाबलात्
१३.४०.४३किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे
मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान्
१३.४०.४४नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः
उटजं वा तथा ह्यस्य नानाविधसरूपता
१३.४०.४५वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्
तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै
१३.४०.४६अथ वा पौरुषेणेयमशक्या रक्षितुं मया
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः
१३.४०.४७सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्
गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम्
१३.४०.४८यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः
१३.४०.४९न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम्
१३.४०.५०अवश्यकरणीयं हि गुरोरिह हि शासनम्
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया
१३.४०.५१योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम्
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम
१३.४०.५२यथा हि शून्यां पथिकः सभामध्यावसेत्पथि
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्
१३.४०.५३असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः
१३.४०.५४इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च
१३.४०.५५इति निश्चित्य मनसा रक्षां प्रति स भार्गवः
आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव
१३.४०.५६गुरुपत्नीमुपासीनो विपुलः स महातपाः
उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत्
१३.४०.५७नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः
विवेश विपुलः कायमाकाशं पवनो यथा
१३.४०.५८लक्षणं लक्षणेनैव वदनं वदनेन च
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः
१३.४०.५९ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्
उवास रक्षणे युक्तो न च सा तमबुध्यत
१३.४०.६०यं कालं नागतो राजन्गुरुस्तस्य महात्मनः
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत