१३. अनुशासनपर्व
१३.४७.१युधिष्ठिर उवाच

१३.४७.२सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ

१३.४७.३कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्

१३.४७.४यथा नरेण कर्तव्यं यश्च धर्मः सनातनः
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति

१३.४७.५चतस्रो विहिता भार्या ब्राह्मणस्य पितामह
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः

१३.४७.६तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति

१३.४७.७केन वा किं ततो हार्यं पितृवित्तात्पितामह
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः

१३.४७.८भीष्म उवाच

१३.४७.९ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर

१३.४७.१०वैषम्यादथ वा लोभात्कामाद्वापि परंतप
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

१३.४७.११शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत्
प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना

१३.४७.१२तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर
अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत

१३.४७.१३लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत्
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात्

१३.४७.१४शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्

१३.४७.१५क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति

१३.४७.१६वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर

१३.४७.१७शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः
अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत

१३.४७.१८दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत्

१३.४७.१९अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत्

१३.४७.२०स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात्

१३.४७.२१तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
अवश्यं हि धनं देयं शूद्रापुत्राय भारत

१३.४७.२२आनृशंस्यं परो धर्म इति तस्मै प्रदीयते
यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते

१३.४७.२३यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत्
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत

१३.४७.२४त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु
यजेत तेन द्रव्येण न वृथा साधयेद्धनम्

१३.४७.२५त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति

१३.४७.२६स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन

१३.४७.२७स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन

१३.४७.२८एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ
एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम्

१३.४७.२९युधिष्ठिर उवाच

१३.४७.३०शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते

१३.४७.३१ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि

१३.४७.३२कस्मात्ते विषमं भागं भजेरन्नृपसत्तम
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति

१३.४७.३३भीष्म उवाच

१३.४७.३४दारा इत्युच्यते लोके नाम्नैकेन परंतप
प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत्

१३.४७.३५तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी

१३.४७.३६स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे

१३.४७.३७न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति
ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर

१३.४७.३८अन्नं पानं च माल्यं च वासांस्याभरणानि च
ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी

१३.४७.३९मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन
तत्राप्येष महाराज दृष्टो धर्मः सनातनः

१३.४७.४०अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर
यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः

१३.४७.४१ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि

१३.४७.४२न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम
भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर

१३.४७.४३यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्

१३.४७.४४श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर
विहितं दृश्यते राजन्सागरान्ता च मेदिनी

१३.४७.४५क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात्

१३.४७.४६ब्राह्मणा हि महाभागा देवानामपि देवताः
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम्

१३.४७.४७प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्
लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः

१३.४७.४८दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः

१३.४७.४९भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर

१३.४७.५०युधिष्ठिर उवाच

१३.४७.५१उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह
इतरेषां तु वर्णानां कथं विनियमो भवेत्

१३.४७.५२भीष्म उवाच

१३.४७.५३क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

१३.४७.५४एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर

१३.४७.५५क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात्
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत्

१३.४७.५६वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम्
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति

१३.४७.५७एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन
द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

१३.४७.५८वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ
शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः

१३.४७.५९पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप

१३.४७.६०वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्
पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत

१३.४७.६१सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत्

१३.४७.६२शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन
शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत्

१३.४७.६३जातानां समवर्णासु पुत्राणामविशेषतः
सर्वेषामेव वर्णानां समभागो धने स्मृतः

१३.४७.६४ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा

१३.४७.६५समवर्णासु जातानां विशेषोऽस्त्यपरो नृप
विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते

१३.४७.६६हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्

१३.४७.६७एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत्