१३.८.१युधिष्ठिर उवाच
१३.८.२के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप
१३.८.३उत्तमापद्गतस्यापि यत्र ते वर्तते मनः
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत
१३.८.४भीष्म उवाच
१३.८.५स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम्
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः
१३.८.६येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम्
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम्
१३.८.७विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम्
१३.८.८संसत्सु वदतां येषां हंसानामिव संघशः
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः
१३.८.९सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः
१३.८.१०ये चापि तेषां श्रोतारः सदा सदसि संमताः
विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम्
१३.८.११सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम्
१३.८.१२शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम्
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर
तेषां संख्यायमानानां दानशूरो विशिष्यते
१३.८.१३धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा
कुले जातो धर्मगतिस्तपोविद्यापरायणः
१३.८.१४न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ
१३.८.१५यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः
१३.८.१६न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः
१३.८.१७न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः
१३.८.१८कर्मणा मनसा वापि वाचा वापि परंतप
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम्
१३.८.१९ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्
१३.८.२०पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः
तेषु मे तात गन्तव्यमह्नाय च चिराय च
१३.८.२१यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः
१३.८.२२क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता
१३.८.२३नारी तु पत्यभावे वै देवरं कुरुते पतिम्
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्
१३.८.२४पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम
१३.८.२५ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान्
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा
१३.८.२६तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा
१३.८.२७व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः
१३.८.२८भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत्
१३.८.२९दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत्
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत्
१३.८.३०पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम्