१४. अश्वमेधिकपर्व
१४.८५.१वैशंपायन उवाच

१४.८५.२शकुनेस्तु सुतो वीरो गान्धाराणां महारथः
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना

१४.८५.३अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम्
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः

१४.८५.४तानुवाच स धर्मात्मा बीभत्सुरपराजितः
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्

१४.८५.५वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः

१४.८५.६ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः

१४.८५.७ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात्
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्

१४.८५.८वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः
आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत्

१४.८५.९वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्

१४.८५.१०तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात्
अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः

१४.८५.११इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः
स शक्रसमकर्माणमवाकिरत सायकैः

१४.८५.१२तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा
अपाहरदसंभ्रान्तो जयद्रथशिरो यथा

१४.८५.१३तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते
इच्छता तेन न हतो राजेत्यपि च ते विदुः

१४.८५.१४गान्धारराजपुत्रस्तु पलायनकृतक्षणः
बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव

१४.८५.१५तेषां तु तरसा पार्थस्तत्रैव परिधावताम्
विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः

१४.८५.१६उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः

१४.८५.१७संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम्
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः

१४.८५.१८न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः
रिपवः पात्यमाना वै ये सहेयुर्महाशरान्

१४.८५.१९ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्

१४.८५.२०सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्

१४.८५.२१तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्

१४.८५.२२न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ

१४.८५.२३गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव

१४.८५.२४मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः