१४. अश्वमेधिकपर्व
१४.९.१इन्द्र उवाच

१४.९.२कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते
कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति

१४.९.३बृहस्पतिरुवाच

१४.९.४सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे
तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति

१४.९.५इन्द्र उवाच

१४.९.६कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य
आचक्ष्व मे तद्द्विज यावदेता;न्निहन्मि सर्वांस्तव दुःखकर्तॄन्

१४.९.७बृहस्पतिरुवाच

१४.९.८मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन
तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत

१४.९.९इन्द्र उवाच

१४.९.१०सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः
उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र

१४.९.११बृहस्पतिरुवाच

१४.९.१२देवैः सह त्वमसुरान्संप्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान्
यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः

१४.९.१३अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य
सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम्

१४.९.१४इन्द्र उवाच

१४.९.१५एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते
अयं वै त्वा याजयिता बृहस्पति;स्तथामरं चैव करिष्यतीति

१४.९.१६अग्निरुवाच

१४.९.१७अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते
वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः

१४.९.१८व्यास उवाच

१४.९.१९ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन्
कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन्

१४.९.२०मरुत्त उवाच

१४.९.२१आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्
आसनं सलिलं पाद्यं गां चोपानय वै मुने

१४.९.२२अग्निरुवाच

१४.९.२३आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्

१४.९.२४मरुत्त उवाच

१४.९.२५कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो
कच्चिद्देवाश्चास्य वशे यथाव;त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव

१४.९.२६अग्निरुवाच

१४.९.२७शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः
देवाश्च सर्वे वशगास्तस्य राज;न्संदेशं त्वं शृणु मे देवराज्ञः

१४.९.२८यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते
अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु

१४.९.२९मरुत्त उवाच

१४.९.३०संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य
नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत्

१४.९.३१अग्निरुवाच

१४.९.३२ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान्देवराजप्रसादात्
त्वां चेदसौ याजयेद्वै बृहस्पति;र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः

१४.९.३३तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः
ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र

१४.९.३४संवर्त उवाच

१४.९.३५मास्मानेवं त्वं पुनरागाः कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते
मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धोऽहं पावक तन्निबोध

१४.९.३६व्यास उवाच

१४.९.३७ततो देवानगमद्धूमकेतु;र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत्
तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम्

१४.९.३८यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते
तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च

१४.९.३९अग्निरुवाच

१४.९.४०न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः
संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः

१४.९.४१उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः
तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः

१४.९.४२इन्द्र उवाच

१४.९.४३पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम्
पुनर्यद्युक्तो न करिष्यते वच;स्ततो वज्रं संप्रहर्तास्मि तस्मै

१४.९.४४अग्निरुवाच

१४.९.४५गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम्
संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः

१४.९.४६यद्यागच्छेः पुनरेवं कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते
दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्येतदवैहि शक्र

१४.९.४७इन्द्र उवाच

१४.९.४८त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता
त्वत्संस्पर्शात्सर्वलोको बिभे;त्यश्रद्धेयं वदसे हव्यवाह

१४.९.४९अग्निरुवाच

१४.९.५०दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र
एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार

१४.९.५१इन्द्र उवाच

१४.९.५२न चण्डिका जङ्गमा नो करेणु;र्न वारिसोमं प्रपिबामि वह्ने
न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः

१४.९.५३प्रव्राजयेयं कालकेयान्पृथिव्या;मपाकर्षं दानवानन्तरिक्षात्
दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः

१४.९.५४अग्निरुवाच

१४.९.५५यत्र शर्यातिं च्यवनो याजयिष्य;न्सहाश्विभ्यां सोममगृह्णदेकः
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता;च्छर्यातियज्ञं स्मर तं महेन्द्र

१४.९.५६वज्रं गृहीत्वा च पुरंदर त्वं; संप्राहार्षीश्च्यवनस्यातिघोरम्
स ते विप्रः सह वज्रेण बाहु;मपागृह्णात्तपसा जातमन्युः

१४.९.५७ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः
मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः

१४.९.५८हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य
सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव

१४.९.५९वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम्
स त्वां दन्तान्विदशन्नभ्यधाव;ज्जिघांसया शूलमुद्यम्य घोरम्

१४.९.६०अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम्
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि;मागच्छेथाः शरणं दानवघ्न

१४.९.६१क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः
सोऽहं जानन्ब्रह्मतेजो यथाव;न्न संवर्तं गन्तुमिच्छामि शक्र