१४.९०.१वैशंपायन उवाच
१४.९०.२स प्रविश्य यथान्यायं पाण्डवानां निवेशनम्
पितामहीमभ्यवदत्साम्ना परमवल्गुना
१४.९०.३तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च
पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः
१४.९०.४ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च
द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः
१४.९०.५ऊषतुस्तत्र ते देव्यौ महार्हशयनासने
सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया
१४.९०.६स च राजा महावीर्यः पूजितो बभ्रुवाहनः
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि
१४.९०.७युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान्
उपगम्य महातेजा विनयेनाभ्यवादयत्
१४.९०.८स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः
१४.९०.९तथैव स महीपालः कृष्णं चक्रगदाधरम्
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्
१४.९०.१०तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम्
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्
१४.९०.११धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा
पृथक्पृथगतीवैनं मानार्हं समपूजयन्
१४.९०.१२ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्
१४.९०.१३अद्य प्रभृति कौन्तेय यजस्व समयो हि ते
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः
१४.९०.१४अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः
१४.९०.१५एवमेव महाराज दक्षिणां त्रिगुणां कुरु
त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्
१४.९०.१६त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान्
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप
१४.९०.१७पवित्रं परमं ह्येतत्पावनानां च पावनम्
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन
१४.९०.१८इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा
नराधिपः प्रायजत वाजिमेधं महाक्रतुम्
१४.९०.१९तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः
परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः
१४.९०.२०न तेषां स्खलितं तत्र नासीदपहुतं तथा
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः
१४.९०.२१कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः
१४.९०.२२अभिषूय ततो राजन्सोमं सोमपसत्तमाः
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः
१४.९०.२३न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह
क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः
१४.९०.२४भोजनं भोजनार्थिभ्यो दापयामास नित्यदा
भीमसेनो महातेजाः सततं राजशासनात्
१४.९०.२५संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः
१४.९०.२६नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः
नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः
१४.९०.२७ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः
१४.९०.२८देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ
श्लेष्मातकमयं चैकं याजकाः समकारयन्
१४.९०.२९शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ
स भीमः कारयामास धर्मराजस्य शासनात्
१४.९०.३०ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः
नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि
१४.९०.३१इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन्
शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः
१४.९०.३२चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः
स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः
१४.९०.३३ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये
१४.९०.३४ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि
१४.९०.३५यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा
अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः
१४.९०.३६स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः
गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः
१४.९०.३७स किंपुरुषगीतैश्च किंनरैरुपशोभितः
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः
१४.९०.३८तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु
१४.९०.३९नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः
विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः
१४.९०.४०गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ