१५. आश्रंवासिकपर्व
१५.१३.१युधिष्ठिर उवाच

१५.१३.२एवमेतत्करिष्यामि यथात्थ पृथिवीपते
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ

१५.१३.३भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति

१५.१३.४यत्तु मामनुशास्तीह भवानद्य हिते स्थितः
कर्तास्म्येतन्महीपाल निर्वृतो भव भारत

१५.१३.५वैशंपायन उवाच

१५.१३.६एवमुक्तः स राजर्षिर्धर्मराजेन धीमता
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ

१५.१३.७पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा

१५.१३.८तमासनगतं देवी गान्धारी धर्मचारिणी
उवाच काले कालज्ञा प्रजापतिसमं पतिम्

१५.१३.९अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा
युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि

१५.१३.१०धृतराष्ट्र उवाच

१५.१३.११गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्

१५.१३.१२अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम्
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु
सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि

१५.१३.१३वैशंपायन उवाच

१५.१३.१४इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः
स च तद्वचनात्सर्वं समानिन्ये महीपतिः

१५.१३.१५ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा
सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा
समवेतांश्च तान्सर्वान्पौरजानपदानथ

१५.१३.१६ब्राह्मणांश्च महीपालान्नानादेशसमागतान्
ततः प्राह महातेजा धृतराष्ट्रो महीपतिः

१५.१३.१७शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः

१५.१३.१८भवन्तः कुरवश्चैव बहुकालं सहोषिताः
परस्परस्य सुहृदः परस्परहिते रताः

१५.१३.१९यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते
तथा भवद्भिः कर्तव्यमविचार्य वचो मम

१५.१३.२०अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च
भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा

१५.१३.२१अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती
न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम

१५.१३.२२श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः

१५.१३.२३युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्
मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः

१५.१३.२४मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः
ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ

१५.१३.२५तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः
बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ

१५.१३.२६तानविब्रुवतः किंचिद्दुःखशोकपरायणान्
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्