१५. आश्रंवासिकपर्व
१५.२७.१वैशंपायन उवाच

१५.२७.२नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्

१५.२७.३अहो भगवता श्रद्धा कुरुराजस्य वर्धिता
सर्वस्य च जनस्यास्य मम चैव महाद्युते

१५.२७.४अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित

१५.२७.५सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा
युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम्

१५.२७.६उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने

१५.२७.७स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो
त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः

१५.२७.८इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः

१५.२७.९यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्

१५.२७.१०तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप
तपसो दुश्चरस्यास्य यदयं तप्यते नृपः

१५.२७.११तत्राहमिदमश्रौषं शक्रस्य वदतो नृप
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः

१५.२७.१२ततः कुबेरभवनं गान्धारीसहितो नृपः
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः

१५.२७.१३कामगेन विमानेन दिव्याभरणभूषितः
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः

१५.२७.१४संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्
स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि

१५.२७.१५देवगुह्यमिदं प्रीत्या मया वः कथितं महत्
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः

१५.२७.१६इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः

१५.२७.१७एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः