२. सभापर्व
२.१७.१राक्षस्युवाच

२.१७.२जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्

२.१७.३साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक

२.१७.४संश्लेषिते मया दैवात्कुमारः समपद्यत
तव भाग्यैर्महाराज हेतुमात्रमहं त्विह

२.१७.५कृष्ण उवाच

२.१७.६एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत
स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः

२.१७.७तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा
आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम्

२.१७.८तस्य नामाकरोत्तत्र प्रजापतिसमः पिता
जरया संधितो यस्माज्जरासंधस्ततोऽभवत्

२.१७.९सोऽवर्धत महातेजा मगधाधिपतेः सुतः
प्रमाणबलसंपन्नो हुताहुतिरिवानलः

२.१७.१०कस्यचित्त्वथ कालस्य पुनरेव महातपाः
मगधानुपचक्राम भगवांश्चण्डकौशिकः

२.१७.११तस्यागमनसंहृष्टः सामात्यः सपुरःसरः
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः

२.१७.१२पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत
स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत्

२.१७.१३प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना

२.१७.१४सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति

२.१७.१५अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः

२.१७.१६सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः

२.१७.१७एनमासाद्य राजानः समृद्धबलवाहनाः
विनाशमुपयास्यन्ति शलभा इव पावकम्

२.१७.१८एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति
वर्षास्विवोद्धतजला नदीर्नदनदीपतिः

२.१७.१९एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा

२.१७.२०अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः

२.१७.२१एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्
सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः

२.१७.२२एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन्
विसर्जयामास नृपं बृहद्रथमथारिहन्

२.१७.२३प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः
अभिषिच्य जरासंधं मगधाधिपतिस्तदा
बृहद्रथो नरपतिः परां निर्वृतिमाययौ

२.१७.२४अभिषिक्ते जरासंधे तदा राजा बृहद्रथः
पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत्

२.१७.२५तपोवनस्थे पितरि मातृभ्यां सह भारत
जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे

२.१७.२६अथ दीर्घस्य कालस्य तपोवनगतो नृपः
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः

२.१७.२७तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ
मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ

२.१७.२८यौ तौ मया ते कथितौ पूर्वमेव महाबलौ
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः

२.१७.२९एवमेष तदा वीर बलिभिः कुकुरान्धकैः
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः