२.२७.१वैशंपायन उवाच
२.२७.२ततः कुमारविषये श्रेणिमन्तमथाजयत्
कोसलाधिपतिं चैव बृहद्बलमरिंदमः
२.२७.३अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम्
अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा
२.२७.४ततो गोपालकच्छं च सोत्तमानपि चोत्तरान्
मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः
२.२७.५ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम्
सर्वमल्पेन कालेन देशं चक्रे वशे बली
२.२७.६एवं बहुविधान्देशान्विजित्य पुरुषर्षभः
उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम्
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः
२.२७.७स काशिराजं समरे सुबन्धुमनिवर्तिनम्
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः
२.२७.८ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्
युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः
२.२७.९ततो मत्स्यान्महातेजा मलयांश्च महाबलान्
अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः
२.२७.१०निवृत्य च महाबाहुर्मदर्वीकं महीधरम्
सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्
२.२७.११भर्गाणामधिपं चैव निषादाधिपतिं तथा
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून्
२.२७.१२ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा
२.२७.१३शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः
वैदेहकं च राजानं जनकं जगतीपतिम्
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा
२.२७.१४वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्
किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः
२.२७.१५ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान्
विजित्य युधि कौन्तेयो मागधानुपयाद्बली
२.२७.१६दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्
तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत्
२.२७.१७जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह
तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली
२.२७.१८स कम्पयन्निव महीं बलेन चतुरङ्गिणा
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना
२.२७.१९स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः
२.२७.२०अथ मोदागिरिं चैव राजानं बलवत्तरम्
पाण्डवो बाहुवीर्येण निजघान महामृधे
२.२७.२१ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम्
कौशिकीकच्छनिलयं राजानं च महौजसम्
२.२७.२२उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्
२.२७.२३समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा
२.२७.२४सुह्मानामधिपं चैव ये च सागरवासिनः
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः
२.२७.२५एवं बहुविधान्देशान्विजित्य पवनात्मजः
वसु तेभ्य उपादाय लौहित्यमगमद्बली
२.२७.२६स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः
करमाहारयामास रत्नानि विविधानि च
२.२७.२७चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्
काञ्चनं रजतं वज्रं विद्रुमं च महाधनम्
२.२७.२८स कोटिशतसंख्येन धनेन महता तदा
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम्
२.२७.२९इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः
निवेदयामास तदा धर्मराजाय तद्धनम्