२. सभापर्व
२.३३.१वैशंपायन उवाच

२.३३.२ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह
अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः

२.३३.३नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा

२.३३.४समेता ब्रह्मभवने देवा देवर्षयो यथा
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः

२.३३.५इदमेवं न चाप्येवमेवमेतन्न चान्यथा
इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम्

२.३३.६कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः

२.३३.७तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्

२.३३.८केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः
रेमिरे कथयन्तश्च सर्ववेदविदां वराः

२.३३.९सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला

२.३३.१०न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने

२.३३.११तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः

२.३३.१२अथ चिन्तां समापेदे स मुनिर्मनुजाधिप
नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम्

२.३३.१३सस्मार च पुरावृत्तां कथां तां भरतर्षभ
अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत्

२.३३.१४देवानां संगमं तं तु विज्ञाय कुरुनन्दन
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्

२.३३.१५साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः
प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः

२.३३.१६संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ

२.३३.१७इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः
आदिश्य विबुधान्सर्वानजायत यदुक्षये

२.३३.१८क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्

२.३३.१९यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते
सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः

२.३३.२०अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम्
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्

२.३३.२१इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित्
हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम्

२.३३.२२तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः

२.३३.२३ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्
क्रियतामर्हणं राज्ञां यथार्हमिति भारत

२.३३.२४आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर
स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा

२.३३.२५एतानर्हानभिगतानाहुः संवत्सरोषितान्
त इमे कालपूगस्य महतोऽस्मानुपागताः

२.३३.२६एषामेकैकशो राजन्नर्घ्यमानीयतामिति
अथ चैषां वरिष्ठाय समर्थायोपनीयताम्

२.३३.२७युधिष्ठिर उवाच

२.३३.२८कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह

२.३३.२९वैशंपायन उवाच

२.३३.३०ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि

२.३३.३१एष ह्येषां समेतानां तेजोबलपराक्रमैः
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः

२.३३.३२असूर्यमिव सूर्येण निवातमिव वायुना
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः

२.३३.३३तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्

२.३३.३४प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे

२.३३.३५स उपालभ्य भीष्मं च धर्मराजं च संसदि
अपाक्षिपद्वासुदेवं चेदिराजो महाबलः