२.४१.१भीष्म उवाच
२.४१.२नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः
२.४१.३को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः
क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः
२.४१.४एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम्
तमेव पुनरादातुमिच्छत्पृथुयशा हरिः
२.४१.५येनैष कुरुशार्दूल शार्दूल इव चेदिराट्
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्
२.४१.६वैशंपायन उवाच
२.४१.७ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा
उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम्
२.४१.८शिशुपाल उवाच
२.४१.९द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः
२.४१.१०संस्तवाय मनो भीष्म परेषां रमते सदा
यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम्
२.४१.११दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्
जायमानेन येनेयमभवद्दारिता मही
२.४१.१२वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्
२.४१.१३द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ
स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ
२.४१.१४ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम्
इमां वसुमतीं कुर्यादशेषामिति मे मतिः
२.४१.१५द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्
अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि
२.४१.१६शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा
२.४१.१७किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्
२.४१.१८आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्
२.४१.१९यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते
२.४१.२०कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि
समावेशयसे सर्वं जगत्केवलकाम्यया
२.४१.२१अथ वैषा न ते भक्तिः प्रकृतिं याति भारत
मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा
२.४१.२२भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः
२.४१.२३मा साहसमितीदं सा सततं वाशते किल
साहसं चात्मनातीव चरन्ती नावबुध्यते
२.४१.२४सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना
२.४१.२५इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्
तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे
२.४१.२६इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम्
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः
२.४१.२७वैशंपायन उवाच
२.४१.२८ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः
२.४१.२९इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्
योऽहं न गणयाम्येतांस्तृणानीव नराधिपान्
२.४१.३०एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे
२.४१.३१केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्
२.४१.३२हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना
२.४१.३३इति तेषां वचः श्रुत्वा ततः कुरुपितामहः
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्
२.४१.३४उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः
२.४१.३५पशुवद्घातनं वा मे दहनं वा कटाग्निना
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम्
२.४१.३६एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम्
२.४१.३७कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम्
यावदस्यैव देवस्य देहं विशतु पातितः