३. वनपर्व
३.१०१.१देवा ऊचुः

३.१०१.२इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः
ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः

३.१०१.३लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः

३.१०१.४इदं च समनुप्राप्तं लोकानां भयमुत्तमम्
न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः

३.१०१.५क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति

३.१०१.६त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः

३.१०१.७विष्णुरुवाच

३.१०१.८विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः

३.१०१.९कालेय इति विख्यातो गणः परमदारुणः
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम्

३.१०१.१०ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्

३.१०१.११ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह

३.१०१.१२न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे

३.१०१.१३एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः

३.१०१.१४तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्
उपास्यमानमृषिभिर्देवैरिव पितामहम्

३.१०१.१५तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्
आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन्

३.१०१.१६देवा ऊचुः

३.१०१.१७नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः

३.१०१.१८क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते

३.१०१.१९तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः

३.१०१.२०अस्माकं भयभीतानां नित्यशो भगवान्गतिः
ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि