३.१७२.१वैशंपायन उवाच
३.१७२.२तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः
उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह
३.१७२.३ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम्
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया
३.१७२.४ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः
अस्त्राणि तानि दिव्यानि दर्शयामास भारत
३.१७२.५यथान्यायं महातेजाः शौचं परममास्थितः
गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम्
पार्थिवं रथमास्थाय शोभमानो धनंजयः
३.१७२.६ततः सुदंशितस्तेन कवचेन सुवर्चसा
धनुरादाय गाण्डीवं देवदत्तं च वारिजम्
३.१७२.७शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे
३.१७२.८अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा
३.१७२.९क्षुभिताः सरितश्चैव तथैव च महोदधिः
शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः
३.१७२.१०न बभासे सहस्रांशुर्न जज्वाल च पावकः
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन
३.१७२.११अन्तर्भूमिगता ये च प्राणिनो जनमेजय
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्
३.१७२.१२वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः
दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम्
३.१७२.१३ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे
३.१७२.१४राजर्षयश्च प्रवरास्तथैव च दिवौकसः
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः
३.१७२.१५ततः पितामहश्चैव लोकपालाश्च सर्वशः
भगवांश्च महादेवः सगणोऽभ्याययौ तदा
३.१७२.१६ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः
अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः
३.१७२.१७जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः
ननृतुः संघशश्चैव राजन्नप्सरसां गणाः
३.१७२.१८तस्मिंस्तु तुमुले काले नारदः सुरचोदितः
आगम्याह वचः पार्थं श्रवणीयमिदं नृप
३.१७२.१९अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत
नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन
३.१७२.२०अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन
प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन
३.१७२.२१एतानि रक्ष्यमाणानि धनंजय यथागमम्
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः
३.१७२.२२अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्
३.१७२.२३अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे
योज्यमानानि पार्थेन द्विषतामवमर्दने
३.१७२.२४निवार्याथ ततः पार्थं सर्वे देवा यथागतम्
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ
३.१७२.२५तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया