३. वनपर्व
३.२००.१मार्कण्डेय उवाच

३.२००.२धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः

३.२००.३श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम्
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका

३.२००.४प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत्

३.२००.५यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्

३.२००.६यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः

३.२००.७विषमां च दशां प्राप्य देवान्गर्हति वै भृशम्
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः

३.२००.८मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्

३.२००.९यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात्
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम्

३.२००.१०संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः

३.२००.११भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखेनेह जीवति

३.२००.१२अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति

३.२००.१३देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः
दशमासधृता गर्भे जायन्ते कुलपांसनाः

३.२००.१४अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः

३.२००.१५कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव

३.२००.१६ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज

३.२००.१७येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर

३.२००.१८अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम

३.२००.१९इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा

३.२००.२०न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत्

३.२००.२१उपर्युपरि लोकस्य सर्वो गन्तुं समीहते
यतते च यथाशक्ति न च तद्वर्तते तथा

३.२००.२२बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः
महच्च फलवैषम्यं दृश्यते कर्मसंधिषु

३.२००.२३न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते

३.२००.२४यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह

३.२००.२५वध्यमाने शरीरे तु देहनाशो भवत्युत
जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः

३.२००.२६ब्राह्मण उवाच

३.२००.२७कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर

३.२००.२८व्याध उवाच

३.२००.२९न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः
जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः

३.२००.३०अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी
यत्तेन किंचिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः

३.२००.३१अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति
नरोऽनुयातस्त्विह कर्मभिः स्वै;स्ततः समुत्पद्यति भावितस्तैः

३.२००.३२ब्राह्मण उवाच

३.२००.३३कथं संभवते योनौ कथं वा पुण्यपापयोः
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम

३.२००.३४व्याध उवाच

३.२००.३५गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम

३.२००.३६यथा संभृतसंभारः पुनरेव प्रजायते
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु

३.२००.३७शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत्
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः

३.२००.३८जातिमृत्युजरादुःखैः सततं समभिद्रुतः
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः

३.२००.३९तिर्यग्योनिसहस्राणि गत्वा नरकमेव च
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः

३.२००.४०जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते

३.२००.४१ततः कर्म समादत्ते पुनरन्यन्नवं बहु
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः

३.२००.४२अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि
परिक्रामति संसारे चक्रवद्बहुवेदनः

३.२००.४३स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति

३.२००.४४पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम्

३.२००.४५अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः

३.२००.४६संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च

३.२००.४७सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज

३.२००.४८सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः

३.२००.४९प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै

३.२००.५०धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति
स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति

३.२००.५१शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः

३.२००.५२धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा

३.२००.५३प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते
विरज्यति यथाकामं न च धर्मं विमुञ्चति

३.२००.५४सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षे प्रयतते नानुपायादुपायतः

३.२००.५५एवं निर्वेदमादत्ते पापं कर्म जहाति च
धार्मिकश्चापि भवति मोक्षं च लभते परम्

३.२००.५६तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति

३.२००.५७इन्द्रियाणां निरोधेन सत्येन च दमेन च
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम

३.२००.५८ब्राह्मण उवाच

३.२००.५९इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम्

३.२००.६०कथं च फलमाप्नोति तेषां धर्मभृतां वर
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक