३.२०३.१मार्कण्डेय उवाच
३.२०३.२एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः
३.२०३.३ब्राह्मण उवाच
३.२०३.४सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
३.२०३.५व्याध उवाच
३.२०३.६हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एषां गुणान्पृथक्त्वेन निबोध गदतो मम
३.२०३.७मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते
३.२०३.८अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः
३.२०३.९प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
३.२०३.१०प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः
३.२०३.११सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते
३.२०३.१२वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्
३.२०३.१३ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम्
न चास्य संयमो नाम क्वचिद्भवति कश्चन
३.२०३.१४शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
३.२०३.१५आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि
३.२०३.१६ब्राह्मण उवाच
३.२०३.१७पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
३.२०३.१८मार्कण्डेय उवाच
३.२०३.१९प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधः स कथयामास ब्राह्मणाय महात्मने
३.२०३.२०व्याध उवाच
३.२०३.२१मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम्
३.२०३.२२श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिरहंकारो भूतानां विषयश्च सः
३.२०३.२३एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः
३.२०३.२४बस्तिमूले गुदे चैव पावकः समुपाश्रितः
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते
३.२०३.२५प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः
३.२०३.२६संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते
३.२०३.२७धातुष्वग्निस्तु विततः स तु वायुसमीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
३.२०३.२८प्राणानां संनिपातात्तु संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्
३.२०३.२९अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः
३.२०३.३०तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
३.२०३.३१अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
३.२०३.३२पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः
३.२०३.३३प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः
३.२०३.३४योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु
३.२०३.३५एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम्
३.२०३.३६तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्
३.२०३.३७देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम्
३.२०३.३८जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम्
३.२०३.३९सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त
३.२०३.४०एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः
३.२०३.४१चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते
३.२०३.४२लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः
३.२०३.४३पूर्वरात्रे परे चैव युञ्जानः सततं मनः
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि
३.२०३.४४प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते
३.२०३.४५सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः
३.२०३.४६नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
३.२०३.४७आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम्
३.२०३.४८सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम्
३.२०३.४९यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
३.२०३.५०यतो न गुरुरप्येनं च्यावयेदुपपादयन्
तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम्
३.२०३.५१न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
३.२०३.५२आकिंचन्यं सुसंतोषो निराशित्वमचापलम्
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्
३.२०३.५३परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च
३.२०३.५४तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
३.२०३.५५गुणागुणमनासङ्गमेककार्यमनन्तरम्
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम्
३.२०३.५६परित्यजति यो दुःखं सुखं चाप्युभयं नरः
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति
३.२०३.५७यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि