३. वनपर्व
३.२११.१मार्कण्डेय उवाच

३.२११.२गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते

३.२११.३अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः

३.२११.४तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत्
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः

३.२११.५ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत्

३.२११.६शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम्

३.२११.७ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह

३.२११.८प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान्

३.२११.९तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत्
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः

३.२११.१०भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा
असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम्

३.२११.११दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम्

३.२११.१२यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः

३.२११.१३दर्शे च पौर्णमासे च यस्येह हविरुच्यते
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः

३.२११.१४इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः

३.२११.१५चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः

३.२११.१६निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान्

३.२११.१७पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः

३.२११.१८अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः

३.२११.१९कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः

३.२११.२०प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्
तस्य संनिहितो नाम शब्दरूपस्य साधनः

३.२११.२१शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः

३.२११.२२कपिलं परमर्षिं च यं प्राहुर्यतयः सदा
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः

३.२११.२३अग्निर्यच्छति भूतानि येन भूतानि नित्यदा
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते

३.२११.२४इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्

३.२११.२५संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये

३.२११.२६दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये

३.२११.२७यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये

३.२११.२८अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये

३.२११.२९मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये

३.२११.३०आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये

३.२११.३१दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम्
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये

३.२११.३२सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये