३.२१७.१मार्कण्डेय उवाच
३.२१७.२स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान्
वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः
ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः
३.२१७.३वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः
कुमाराश्च विशाखं तं पितृत्वे समकल्पयन्
३.२१७.४स भूत्वा भगवान्संख्ये रक्षंश्छागमुखस्तदा
वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः
३.२१७.५मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि
३.२१७.६रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम्
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः
३.२१७.७यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत
३.२१७.८मातर ऊचुः
३.२१७.९भवेम सर्वलोकस्य वयं मातर उत्तमाः
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः
३.२१७.१०मार्कण्डेय उवाच
३.२१७.११सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः
अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः
३.२१७.१२ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत्
काकी च हलिमा चैव रुद्राथ बृहली तथा
आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः
३.२१७.१३एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः
३.२१७.१४एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः
छागवक्त्रेण सहितो नवकः परिकीर्त्यते
३.२१७.१५षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्
षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम्
३.२१७.१६षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह
३.२१७.१७इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप