३.२३.१वासुदेव उवाच
३.२३.२ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्
३.२३.३शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः
३.२३.४ततो नादृश्यत तदा सौभं कुरुकुलोद्वह
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम्
३.२३.५अथ दानवसंघास्ते विकृताननमूर्धजाः
उदक्रोशन्महाराज विष्ठिते मयि भारत
३.२३.६ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे
अयोजयं तद्वधाय ततः शब्द उपारमत्
३.२३.७हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः
शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः
३.२३.८तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान्
३.२३.९एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत
नादयामासुरसुरास्ते चापि निहता मया
३.२३.१०ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत
सौभं कामगमं वीर मोहयन्मम चक्षुषी
३.२३.११ततो लोकान्तकरणो दानवो वानराकृतिः
शिलावर्षेण सहसा महता मां समावृणोत्
३.२३.१२सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्
३.२३.१३ततोऽहं पर्वतचितः सहयः सहसारथिः
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः
३.२३.१४ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः
३.२३.१५ततो हाहाकृतं सर्वमभूत्किल विशां पते
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि
३.२३.१६ततो विषण्णमनसो मम राजन्सुहृज्जनाः
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः
३.२३.१७द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि
एवं विजितवान्वीर पश्चादश्रौषमच्युत
३.२३.१८ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम्
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्
३.२३.१९ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः
हया मम महाराज वेपमाना इवाभवन्
३.२३.२०मेघजालमिवाकाशे विदार्याभ्युदितं रविम्
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः
३.२३.२१ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप
साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्
३.२३.२२अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर
३.२३.२३जहि शाल्वं महाबाहो मैनं जीवय केशव
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्
३.२३.२४न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः
३.२३.२५स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः
३.२३.२६नैष मार्दवसाध्यो वै मतो नापि सखा तव
येन त्वं योधितो वीर द्वारका चावमर्दिता
३.२३.२७एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
३.२३.२८वधाय शाल्वराजस्य सौभस्य च निपातने
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति
३.२३.२९ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्
३.२३.३०यक्षाणां राक्षसानां च दानवानां च संयुगे
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्
३.२३.३१क्षुरान्तममलं चक्रं कालान्तकयमोपमम्
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम्
३.२३.३२जहि सौभं स्ववीर्येण ये चात्र रिपवो मम
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा
३.२३.३३रूपं सुदर्शनस्यासीदाकाशे पततस्तदा
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः
३.२३.३४तत्समासाद्य नगरं सौभं व्यपगतत्विषम्
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्
३.२३.३५द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा
३.२३.३६तस्मिन्निपतिते सौभे चक्रमागात्करं मम
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम्
३.२३.३७ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे
द्विधा चकार सहसा प्रजज्वाल च तेजसा
३.२३.३८तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः
३.२३.३९ततोऽहं समवस्थाप्य रथं सौभसमीपतः
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्
३.२३.४०तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः
३.२३.४१एवं निहत्य समरे शाल्वं सौभं निपात्य च
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम्
३.२३.४२एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम्
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः
३.२३.४३वैशंपायन उवाच
३.२३.४४एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः
३.२३.४५अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः
३.२३.४६सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः
३.२३.४७सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्
३.२३.४८ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा
३.२३.४९धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्
३.२३.५०केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत
३.२३.५१ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्
३.२३.५२समवायः स राजेन्द्र सुमहाद्भुतदर्शनः
आसीन्महात्मनां तेषां काम्यके भरतर्षभ
३.२३.५३युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः
शशास पुरुषान्काले रथान्योजयतेति ह