३. वनपर्व
३.२५.१वैशंपायन उवाच

३.२५.२ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः

३.२५.३द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्

३.२५.४बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि

३.२५.५एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम्

३.२५.६अर्जुन उवाच

३.२५.७भवानेव महर्षीणां वृद्धानां पर्युपासिता
अज्ञातं मानुषे लोके भवतो नास्ति किंचन

३.२५.८त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ
द्वैपायनप्रभृतयो नारदश्च महातपाः

३.२५.९यः सर्वलोकद्वाराणि नित्यं संचरते वशी
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि

३.२५.१०सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव

३.२५.११त्वमेव राजञ्जानासि श्रेयःकारणमेव च
यत्रेच्छसि महाराज निवासं तत्र कुर्महे

३.२५.१२इदं द्वैतवनं नाम सरः पुण्यजनोचितम्
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्

३.२५.१३अत्रेमा द्वादश समा विहरेमेति रोचये
यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान्

३.२५.१४युधिष्ठिर उवाच

३.२५.१५ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्
गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः

३.२५.१६वैशंपायन उवाच

३.२५.१७ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः

३.२५.१८ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः

३.२५.१९बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्
तपस्विनः सत्यशीलाः शतशः संशितव्रताः

३.२५.२०ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः

३.२५.२१तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः
तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श

३.२५.२२महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः
मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च

३.२५.२३करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम्
महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श

३.२५.२४मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम्
तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान्

३.२५.२५ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत्
विवेश धर्मात्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः

३.२५.२६तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः
वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः

३.२५.२७स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च
विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः

३.२५.२८स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य
प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा

३.२५.२९भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम्
विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः

३.२५.३०लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः
बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव