३.२९१.१वैशंपायन उवाच
३.२९१.२सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
३.२९१.३न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
३.२९१.४अनागसः पितुः शापो ब्राह्मणस्य तथैव च
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः
३.२९१.५बालेनापि सता मोहाद्भृशं सापह्नवान्यपि
नात्यासादयितव्यानि तेजांसि च तपांसि च
३.२९१.६साहमद्य भृशं भीता गृहीता च करे भृशम्
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्
३.२९१.७सैवं शापपरित्रस्ता बहु चिन्तयती तदा
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः
३.२९१.८तं देवमब्रवीद्भीता बन्धूनां राजसत्तम
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते
३.२९१.९कुन्त्युवाच
३.२९१.१०पिता मे ध्रियते देव माता चान्ये च बान्धवाः
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्
३.२९१.११त्वया मे संगमो देव यदि स्याद्विधिवर्जितः
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः
३.२९१.१२अथ वा धर्ममेतं त्वं मन्यसे तपतां वर
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
३.२९१.१३आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम्
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्
३.२९१.१४सूर्य उवाच
३.२९१.१५न ते पिता न ते माता गुरवो वा शुचिस्मिते
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः
३.२९१.१६सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि
३.२९१.१७नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि
अधर्मं कुत एवाहं चरेयं लोककाम्यया
३.२९१.१८अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः
३.२९१.१९सा मया सह संगम्य पुनः कन्या भविष्यसि
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः
३.२९१.२०कुन्त्युवाच
३.२९१.२१यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह
कुण्डली कवची शूरो महाबाहुर्महाबलः
३.२९१.२२सूर्य उवाच
३.२९१.२३भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्
उभयं चामृतमयं तस्य भद्रे भविष्यति
३.२९१.२४कुन्त्युवाच
३.२९१.२५यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि
३.२९१.२६अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च
३.२९१.२७सूर्य उवाच
३.२९१.२८अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्
३.२९१.२९पृथोवाच
३.२९१.३०परमं भगवन्देव संगमिष्ये त्वया सह
यदि पुत्रो भवेदेवं यथा वदसि गोपते
३.२९१.३१वैशंपायन उवाच
३.२९१.३२तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्
३.२९१.३३ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा
पपाताथ च सा देवी शयने मूढचेतना
३.२९१.३४सूर्य उवाच
३.२९१.३५साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि
३.२९१.३६वैशंपायन उवाच
३.२९१.३७ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्
३.२९१.३८इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा
तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव
३.२९१.३९तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार
न चैवैनां दूषयामास भानुः; संज्ञां लेभे भूय एवाथ बाला