३. वनपर्व
३.५६.१बृहदश्व उवाच

३.५६.२एवं स समयं कृत्वा द्वापरेण कलिः सह
आजगाम ततस्तत्र यत्र राजा स नैषधः

३.५६.३स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्

३.५६.४कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्

३.५६.५स समाविश्य तु नलं समीपं पुष्करस्य ह
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै

३.५६.६अक्षद्यूते नलं जेता भवान्हि सहितो मया
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम्

३.५६.७एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्

३.५६.८आसाद्य तु नलं वीरं पुष्करः परवीरहा
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः

३.५६.९न चक्षमे ततो राजा समाह्वानं महामनाः
वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत

३.५६.१०हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा

३.५६.११तमक्षमदसंमत्तं सुहृदां न तु कश्चन
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम्

३.५६.१२ततः पौरजनः सर्वो मन्त्रिभिः सह भारत
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्

३.५६.१३ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्
एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान्

३.५६.१४निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः

३.५६.१५ततः सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच नैषधं भैमी शोकोपहतचेतना

३.५६.१६राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत

३.५६.१७तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम्
आविष्टः कलिना राजा नाभ्यभाषत किंचन

३.५६.१८ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्

३.५६.१९तथा तदभवद्द्यूतं पुष्करस्य नलस्य च
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत