३. वनपर्व
३.९२.१युधिष्ठिर उवाच

३.९२.२न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः

३.९२.३परांश्च निर्गुणान्मन्ये न च धर्मरतानपि
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना

३.९२.४लोमश उवाच

३.९२.५नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन
यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः

३.९२.६वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति
ततः सपत्नाञ्जयति समूलस्तु विनश्यति

३.९२.७मया हि दृष्टा दैतेया दानवाश्च महीपते
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः

३.९२.८पुरा देवयुगे चैव दृष्टं सर्वं मया विभो
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः

३.९२.९तीर्थानि देवा विविशुर्नाविशन्भारतासुराः
तानधर्मकृतो दर्पः पूर्वमेव समाविशत्

३.९२.१०दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्

३.९२.११तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान्
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप

३.९२.१२तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः

३.९२.१३तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः

३.९२.१४मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः

३.९२.१५देवास्तु सागरांश्चैव सरितश्च सरांसि च
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च

३.९२.१६तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे

३.९२.१७एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम्

३.९२.१८तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः

३.९२.१९यथैव हि नृगो राजा शिबिरौशीनरो यथा
भगीरथो वसुमना गयः पूरुः पुरूरवाः

३.९२.२०चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम्

३.९२.२१अलभन्त यशः पुण्यं धनानि च विशां पते
तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम्

३.९२.२२यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः

३.९२.२३कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे

३.९२.२४धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः
नचिराद्विनशिष्यन्ति दैत्या इव न संशयः