४. विराटपर्व
४.३८.१वैशंपायन उवाच

४.३८.२तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत्
सुकुमारं समाज्ञातं संग्रामे नातिकोविदम्

४.३८.३समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्

४.३८.४भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम्
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः

४.३८.५तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम्
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत

४.३८.६युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च

४.३८.७अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम्
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्

४.३८.८व्यायामसहमत्यर्थं तृणराजसमं महत्
सर्वायुधमहामात्रं शत्रुसंबाधकारकम्

४.३८.९सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम्
तादृशान्येव सर्वाणि बलवन्ति दृढानि च

४.३८.१०उत्तर उवाच

४.३८.११अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम्
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्

४.३८.१२नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना
महता राजपुत्रेण मन्त्रयज्ञविदा सता

४.३८.१३स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे

४.३८.१४बृहन्नडोवाच

४.३८.१५व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते

४.३८.१६दायादं मत्स्यराजस्य कुले जातं मनस्विनम्
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज

४.३८.१७वैशंपायन उवाच

४.३८.१८एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली
आरुरोह शमीवृक्षं वैराटिरवशस्तदा

४.३८.१९तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद

४.३८.२०तथा संनहनान्येषां परिमुच्य समन्ततः
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह

४.३८.२१तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव

४.३८.२२स तेषां रूपमालोक्य भोगिनामिव जृम्भताम्
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत

४.३८.२३संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत्

४.३८.२४उत्तर उवाच

४.३८.२५बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम्

४.३८.२६वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम्

४.३८.२७तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम्

४.३८.२८सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्

४.३८.२९शालभा यत्र सौवर्णास्तपनीयविचित्रिताः
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम्

४.३८.३०इमे च कस्य नाराचाः सहस्रा लोमवाहिनः
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये

४.३८.३१विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः

४.३८.३२कस्यायमसितावापः पञ्चशार्दूललक्षणः
वराहकर्णव्यामिश्रः शरान्धारयते दश

४.३८.३३कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः

४.३८.३४कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः

४.३८.३५कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान्

४.३८.३६सुफलश्चित्रकोशश्च किङ्किणीसायको महान्
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः

४.३८.३७कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः

४.३८.३८कस्य पाञ्चनखे कोशे सायको हेमविग्रहः
प्रमाणरूपसंपन्नः पीत आकाशसंनिभः

४.३८.३९कस्य हेममये कोशे सुतप्ते पावकप्रभे
निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः

४.३८.४०निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्

४.३८.४१बृहन्नडोवाच

४.३८.४२यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम्
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः

४.३८.४३सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम्
एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम्

४.३८.४४यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम्
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे

४.३८.४५देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्

४.३८.४६ततोऽनन्तरमेवाथ प्रजापतिरधारयत्
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च

४.३८.४७सोमः पञ्चशतं राजा तथैव वरुणः शतम्
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः

४.३८.४८महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम्
पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः

४.३८.४९सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः
येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः

४.३८.५०इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम्
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम्

४.३८.५१सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्

४.३८.५२शलभा यत्र सौवर्णास्तपनीयविचित्रिताः
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्

४.३८.५३ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः

४.३८.५४एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्

४.३८.५५ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः
एते भीमस्य निशिता रिपुक्षयकराः शराः

४.३८.५६हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः

४.३८.५७येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः

४.३८.५८ये त्विमे भास्कराकाराः सर्वपारशवाः शराः
एते चित्राः क्रियोपेताः सहदेवस्य धीमतः

४.३८.५९ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः

४.३८.६०यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः

४.३८.६१वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः
गुरुभारसहो दिव्यः शात्रवाणां भयंकरः

४.३८.६२सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः

४.३८.६३यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः

४.३८.६४यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्