५. उद्योगपर्व
५.१०७.१सुपर्ण उवाच

५.१०७.२इयं विवस्वता पूर्वं श्रौतेन विधिना किल
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक्

५.१०७.३अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः
अत्रोष्मपानां देवानां निवासः श्रूयते द्विज

५.१०७.४अत्र विश्वे सदा देवाः पितृभिः सार्धमासते
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम्

५.१०७.५एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज
त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः

५.१०७.६अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः

५.१०७.७अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते
गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः

५.१०७.८एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते
वृता त्वनवबोधेन सुखं तेन न गम्यते

५.१०७.९नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः

५.१०७.१०अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च
गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज

५.१०७.११अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः
गतदारो गतामात्यो गतराज्यो वनं गतः

५.१०७.१२अत्र सावर्णिना चैव यवक्रीतात्मजेन च
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते

५.१०७.१३अत्र राक्षसराजेन पौलस्त्येन महात्मना
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता

५.१०७.१४अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान्
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा

५.१०७.१५अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव
अत्र वैतरणी नाम नदी वितरणैर्वृता
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते

५.१०७.१६अत्रावृत्तो दिनकरः क्षरते सुरसं पयः
काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः

५.१०७.१७अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन्
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ

५.१०७.१८अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः
विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः

५.१०७.१९अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः
अधीत्य सखिलान्वेदानालभन्ते यमक्षयम्

५.१०७.२०अत्र भोगवती नाम पुरी वासुकिपालिता
तक्षकेण च नागेन तथैवैरावतेन च

५.१०७.२१अत्र निर्याणकालेषु तमः संप्राप्यते महत्
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना

५.१०७.२२एष तस्यापि ते मार्गः परितापस्य गालव
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम