५. उद्योगपर्व
५.१७३.१भीष्म उवाच

५.१७३.२सा निष्क्रमन्ती नगराच्चिन्तयामास भारत
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया
बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता

५.१७३.३न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्
अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम्

५.१७३.४किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्
आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम्

५.१७३.५ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा
प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा
तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत्

५.१७३.६धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्
येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता

५.१७३.७धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम्

५.१७३.८सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
अनयस्यास्य तु मुखं भीष्मः शांतनवो मम

५.१७३.९सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम्
तपसा वा युधा वापि दुःखहेतुः स मे मतः
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः

५.१७३.१०एवं सा परिनिश्चित्य जगाम नगराद्बहिः
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
ततस्तामवसद्रात्रिं तापसैः परिवारिता

५.१७३.११आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत
विस्तरेण महाबाहो निखिलेन शुचिस्मिता
हरणं च विसर्गं च शाल्वेन च विसर्जनम्

५.१७३.१२ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः

५.१७३.१३आर्तां तामाह स मुनिः शैखावत्यो महातपाः
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम्

५.१७३.१४एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः
आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः

५.१७३.१५सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः
प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम्

५.१७३.१६मयैवैतानि कर्माणि पूर्वदेहेषु मूढया
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम्

५.१७३.१७नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता

५.१७३.१८उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः
युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि

५.१७३.१९स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह