५.१७८.१भीष्म उवाच
५.१७८.२ततस्तृतीये दिवसे समे देशे व्यवस्थितः
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः
५.१७८.३तमागतमहं श्रुत्वा विषयान्तं महाबलम्
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्
५.१७८.४गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः
५.१७८.५स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्
५.१७८.६भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया
अकामेयमिहानीता पुनश्चैव विसर्जिता
५.१७८.७विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात्
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति
५.१७८.८प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत
५.१७८.९स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ
५.१७८.१०ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम्
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन
५.१७८.११शाल्वस्याहमिति प्राह पुरा मामिह भार्गव
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति
५.१७८.१२न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम्
५.१७८.१३अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव
५.१७८.१४हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः
५.१७८.१५तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम्
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः
५.१७८.१६तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि
५.१७८.१७इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव
५.१७८.१८ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते
५.१७८.१९न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति
५.१७८.२०तथा ब्रुवन्तं तमहं रामं परपुरंजयम्
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते
५.१७८.२१गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम्
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया
५.१७८.२२को जातु परभावां हि नारीं व्यालीमिव स्थिताम्
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान्
५.१७८.२३न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम्
५.१७८.२४अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना
५.१७८.२५गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम्
५.१७८.२६स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम्
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया
५.१७८.२७गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव
५.१७८.२८उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः
५.१७८.२९क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन्
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति
५.१७८.३०अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च
५.१७८.३१यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्
५.१७८.३२एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने
५.१७८.३३तत्र त्वं निहतो राम मया शरशताचितः
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे
५.१७८.३४स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन
५.१७८.३५अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव
५.१७८.३६तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
५.१७८.३७यच्चापि कत्थसे राम बहुशः परिषत्सु वै
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु
५.१७८.३८न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्
५.१७८.३९सोऽहं जातो महाबाहो भीष्मः परपुरंजयः
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः