५. उद्योगपर्व
५.३.१सात्यकिरुवाच

५.३.२यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे

५.३.३सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति

५.३.४एकस्मिन्नेव जायेते कुले क्लीबमहारथौ
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ

५.३.५नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव

५.३.६कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः

५.३.७समाहूय महात्मानं जितवन्तोऽक्षकोविदाः
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः

५.३.८यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत्

५.३.९समाहूय तु राजानं क्षत्रधर्मरतं सदा
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम्

५.३.१०कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम्

५.३.११यद्ययं परवित्तानि कामयेत युधिष्ठिरः
एवमप्ययमत्यन्तं परान्नार्हति याचितुम्

५.३.१२कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः
निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति

५.३.१३अनुनीता हि भीष्मेण द्रोणेन च महात्मना
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु

५.३.१४अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात्
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः

५.३.१५अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति

५.३.१६न हि ते युयुधानस्य संरब्धस्य युयुत्सतः
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः

५.३.१७को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि
मां चापि विषहेत्को नु कश्च भीमं दुरासदम्

५.३.१८यमौ च दृढधन्वानौ यमकल्पौ महाद्युती
को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम्

५.३.१९पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान्
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान्

५.३.२०सौभद्रं च महेष्वासममरैरपि दुःसहम्
गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान्

५.३.२१ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम्

५.३.२२नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्

५.३.२३हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः
निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः

५.३.२४अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले