५.३०.१संजय उवाच
५.३०.२आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु
कच्चिन्न वाचा वृजिनं हि किंचि;दुच्चारितं मे मनसोऽभिषङ्गात्
५.३०.३जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम्
आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः
५.३०.४युधिष्ठिर उवाच
५.३०.५अनुज्ञातः संजय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किंचित्
विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम्
५.३०.६आप्तो दूतः संजय सुप्रियोऽसि; कल्याणवाक्शीलवान्दृष्टिमांश्च
न मुह्येस्त्वं संजय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम्
५.३०.७न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम्
धर्मारामामर्थवतीमहिंस्रा;मेतां वाचं तव जानामि सूत
५.३०.८त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः
अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनंजयस्यात्मसमः सखासि
५.३०.९इतो गत्वा संजय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः
विशुद्धवीर्यांश्चरणोपपन्ना;न्कुले जातान्सर्वधर्मोपपन्नान्
५.३०.१०स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु
अभिवाद्या वै मद्वचनेन वृद्धा;स्तथेतरेषां कुशलं वदेथाः
५.३०.११पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य
तैश्च त्वं तात सहितैर्यथार्हं; संगच्छेथाः कुशलेनैव सूत
५.३०.१२आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार
योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम्
५.३०.१३अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे
गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः
५.३०.१४शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य
त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ संजय पाणिना स्पृशेः
५.३०.१५यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च
पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः
५.३०.१६प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी
तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय मामरोगम्
५.३०.१७ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः संजय पापशीलः
प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः
५.३०.१८भ्राता कनीयानपि तस्य मन्द;स्तथाशीलः संजय सोऽपि शश्वत्
महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः
५.३०.१९वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम्
न तस्य युद्धं रोचते वै कदाचि;द्वैश्यापुत्रं कुशलं तात पृच्छेः
५.३०.२०निकर्तने देवने योऽद्वितीय;श्छन्नोपधः साधुदेवी मताक्षः
यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः
५.३०.२१यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म
स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः
५.३०.२२गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः
स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे
५.३०.२३अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च
महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः
५.३०.२४ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः
यं यमेषां येन येनाभिगच्छे;रनामयं मद्वचनेन वाच्यः
५.३०.२५ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित्
वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः
५.३०.२६प्राच्योदीच्या दाक्षिणात्याश्च शूरा;स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे
अनृशंसाः शीलवृत्तोपपन्ना;स्तेषां सर्वेषां कुशलं तात पृच्छेः
५.३०.२७हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसंघा महान्तः
आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेः समग्रान्
५.३०.२८तथा राज्ञो ह्यर्थयुक्तानमात्या;न्दौवारिकान्ये च सेनां नयन्ति
आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति
५.३०.२९गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी
मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः
५.३०.३०यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम्
यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः
५.३०.३१स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च
अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः
५.३०.३२वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस्ताः
ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः
५.३०.३३कच्चित्पुत्रा जीवपुत्राः सुसम्य;ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम्
इति स्मोक्त्वा संजय ब्रूहि पश्चा;दजातशत्रुः कुशली सपुत्रः
५.३०.३४या नो भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः
सुसंगुप्ताः सुरभयोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः
५.३०.३५कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम्
यथा च वः स्युः पतयोऽनुकूला;स्तथा वृत्तिमात्मनः स्थापयध्वम्
५.३०.३६या नः स्नुषाः संजय वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः
प्रजावत्यो ब्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः
५.३०.३७कन्याः स्वजेथाः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा
कल्याणा वः सन्तु पतयोऽनुकूला; यूयं पतीनां भवतानुकूलाः
५.३०.३८अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः
लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः
५.३०.३९दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः
आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर्जघन्यम्
५.३०.४०कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति
अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो बिभर्ति
५.३०.४१अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा बहवो येऽत्र सन्ति
आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेर्जघन्यम्
५.३०.४२मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम्
निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये
५.३०.४३सन्त्येव मे ब्राह्मणेभ्यः कृतानि; भावीन्यथो नो बत वर्तयन्ति
पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावयेथा नृपं तम्
५.३०.४४ये चानाथा दुर्बलाः सर्वकाल;मात्मन्येव प्रयतन्तेऽथ मूढाः
तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः
५.३०.४५ये चाप्यन्ये संश्रिता धार्तराष्ट्रा;न्नानादिग्भ्योऽभ्यागताः सूतपुत्र
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा;न्संपृच्छेथाः कुशलं चाव्ययं च
५.३०.४६एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान्
पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः
५.३०.४७न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः
धर्मस्तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय
५.३०.४८इदं पुनर्वचनं धार्तराष्ट्रं; सुयोधनं संजय श्रावयेथाः
यस्ते शरीरे हृदयं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम्
५.३०.४९न विद्यते युक्तिरेतस्य काचि;न्नैवंविधाः स्याम यथा प्रियं ते
ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर