५.३७.१विदुर उवाच
५.३७.२सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः
५.३७.३तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत्
अथो मरीचिनः पादाननाम्यान्नमतस्तथा
५.३७.४यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम्
स्त्रियश्च योऽरक्षति भद्रमस्तु ते; यश्चायाच्यं याचति यश्च कत्थते
५.३७.५यश्चाभिजातः प्रकरोत्यकार्यं; यश्चाबलो बलिना नित्यवैरी
अश्रद्दधानाय च यो ब्रवीति; यश्चाकाम्यं कामयते नरेन्द्र
५.३७.६वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः
परक्षेत्रे निर्वपति यश्च बीजं; स्त्रियं च यः परिवदतेऽतिवेलम्
५.३७.७यश्चैव लब्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः
यश्चासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः
५.३७.८यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः
मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः
५.३७.९धृतराष्ट्र उवाच
५.३७.१०शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना
५.३७.११विदुर उवाच
५.३७.१२अतिवादोऽतिमानश्च तथात्यागो नराधिप
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट्
५.३७.१३एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते
५.३७.१४विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत
५.३७.१५शरणागतहा चैव सर्वे ब्रह्महणैः समाः
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः
५.३७.१६गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च
नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान्
५.३७.१७सुलभाः पुरुषा राजन्सततं प्रियवादिनः
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
५.३७.१८यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये
अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
५.३७.१९त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
५.३७.२०आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि
आत्मानं सततं रक्षेद्दारैरपि धनैरपि
५.३७.२१उक्तं मया द्यूतकालेऽपि राज;न्नैवं युक्तं वचनं प्रातिपीय
तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य
५.३७.२२काकैरिमांश्चित्रबर्हान्मयूरा;न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः
हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र
५.३७.२३यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य
तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति
५.३७.२४न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं संजिघृक्षेदपूर्वम्
त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः
५.३७.२५कृत्यानि पूर्वं परिसंख्याय सर्वा;ण्यायव्ययावनुरूपां च वृत्तिम्
संगृह्णीयादनुरूपान्सहाया;न्सहायसाध्यानि हि दुष्कराणि
५.३७.२६अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः
वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः
५.३७.२७वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्चापि नियुज्यमानः
प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः
५.३७.२८अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः
अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम्
५.३७.२९न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतयानो विकाले
न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत
५.३७.३०न निह्नवं सत्रगतस्य गच्छे;त्संसृष्टमन्त्रस्य कुसंगतस्य
न च ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात्
५.३७.३१घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा
सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते
५.३७.३२गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः
स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः
५.३७.३३गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमायुश्च सुखं बलं च
अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति
५.३७.३४अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम्
अदेशकालज्ञमनिष्टवेष;मेतान्गृहे न प्रतिवासयीत
५.३७.३५कदर्यमाक्रोशकमश्रुतं च; वराकसंभूतममान्यमानिनम्
निष्ठूरिणं कृतवैरं कृतघ्न;मेतान्भृशार्तोऽपि न जातु याचेत्
५.३७.३६संक्लिष्टकर्माणमतिप्रवादं; नित्यानृतं चादृढभक्तिकं च
विकृष्टरागं बहुमानिनं चा;प्येतान्न सेवेत नराधमान्षट्
५.३७.३७सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः
५.३७.३८उत्पाद्य पुत्राननृणांश्च कृत्वा; वृत्तिं च तेभ्योऽनुविधाय कांचित्
स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्बुभूषेत्
५.३७.३९हितं यत्सर्वभूतानामात्मनश्च सुखावहम्
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये
५.३७.४०बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः
५.३७.४१पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः
पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः
५.३७.४२भीष्मस्य कोपस्तव चेन्द्रकल्प; द्रोणस्य राज्ञश्च युधिष्ठिरस्य
उत्सादयेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे
५.३७.४३तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः
पृथिवीमनुशासेयुरखिलां सागराम्बराम्
५.३७.४४धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात्
५.३७.४५न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम्
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम्
५.३७.४६न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान्
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः
५.३७.४७अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम्
५.३७.४८यस्यात्मा विरतः पापात्कल्याणे च निवेशितः
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
५.३७.४९यो धर्ममर्थं कामं च यथाकालं निषेवते
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति
५.३७.५०संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति
५.३७.५१बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते
५.३७.५२अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते
धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः
५.३७.५३यत्त्वस्य सहजं राजन्पितृपैतामहं बलम्
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम्
५.३७.५४येन त्वेतानि सर्वाणि संगृहीतानि भारत
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते
५.३७.५५महते योऽपकाराय नरस्य प्रभवेन्नरः
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्
५.३७.५६स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु
भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति
५.३७.५७प्रज्ञाशरेणाभिहतस्य जन्तो;श्चिकित्सकाः सन्ति न चौषधानि
न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः
५.३७.५८सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत
नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः
५.३७.५९अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः
५.३७.६०स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा
५.३७.६१एवमेव कुले जाताः पावकोपमतेजसः
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
५.३७.६२लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः
न लता वर्धते जातु महाद्रुममनाश्रिता
५.३७.६३वनं राजंस्त्वं सपुत्रोऽम्बिकेय; सिंहान्वने पाण्डवांस्तात विद्धि
सिंहैर्विहीनं हि वनं विनश्ये;त्सिंहा विनश्येयुरृते वनेन