६.१००.१संजय उवाच
६.१००.२अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान्
अनयत्प्रेतराजस्य भवनं सायकैः शितैः
६.१००.३सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः
६.१००.४तान्निवार्य शरौघेण शक्रसूनुर्महारथः
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्
६.१००.५ते वध्यमानाः पार्थेन कालेनेव युगक्षये
व्यद्रवन्त रणे राजन्भये जाते महारथाः
६.१००.६उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश
६.१००.७अपरे तुद्यमानास्तु वाजिनागरथा रणात्
त्वरया परया युक्ताः प्राद्रवन्त विशां पते
६.१००.८पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे
निरपेक्षा व्यधावन्त तेन तेन स्म भारत
६.१००.९वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे
६.१००.१०तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्
६.१००.११सर्वोद्योगेन महता धनंजयमुपाद्रवत्
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते
६.१००.१२स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः
६.१००.१३तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः
६.१००.१४जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः
६.१००.१५ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम्
छादयामास समरे शरैः संनतपर्वभिः
६.१००.१६एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे
६.१००.१७सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः
६.१००.१८तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः
६.१००.१९भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम्
विद्ध्वानदन्महानादं शार्दूल इव कानने
६.१००.२०आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः
चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम्
६.१००.२१समागतौ तौ तु रणे महामात्रौ व्यरोचताम्
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ
६.१००.२२तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः
ननाद बलवन्नादं सौभद्रः परवीरहा
६.१००.२३हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते
६.१००.२४द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी
६.१००.२५पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्
६.१००.२६भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम्
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः
६.१००.२७ससंभ्रमो महाराज संशयं परमं गतः
अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः
६.१००.२८सात्यकिः कृतवर्माणं वारयित्वा महारथः
शरैर्बहुविधै राजन्नाससाद पितामहम्
६.१००.२९स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः
६.१००.३०तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
हेमचित्रां महावेगां नागकन्योपमां शुभाम्
६.१००.३१तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम्
ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः
६.१००.३२अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा
६.१००.३३वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम्
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति
६.१००.३४वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्
६.१००.३५तामापतन्तीं सहसा द्विधा चिच्छेद भारत
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले
६.१००.३६छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः
६.१००.३७ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
परिवव्रू रणे भीष्मं माधवत्राणकारणात्
६.१००.३८ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
पाण्डवानां कुरूणां च समरे विजयैषिणाम्