६.३७.१श्रीभगवानुवाच
६.३७.२ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्
६.३७.३अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः
अधश्च मूलान्यनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके
६.३७.४न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च संप्रतिष्ठा
अश्वत्थमेनं सुविरूढमूल;मसङ्गशस्त्रेण दृढेन छित्त्वा
६.३७.५ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी
६.३७.६निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः
द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै;र्गच्छन्त्यमूढाः पदमव्ययं तत्
६.३७.७न तद्भासयते सूर्यो न शशाङ्को न पावकः
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम
६.३७.८ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति
६.३७.९शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्
६.३७.१०श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते
६.३७.११उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः
६.३७.१२यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः
६.३७.१३यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्
६.३७.१४गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः
६.३७.१५अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्
६.३७.१६सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम्
६.३७.१७द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते
६.३७.१८उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः
६.३७.१९यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः
६.३७.२०यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
स सर्वविद्भजति मां सर्वभावेन भारत
६.३७.२१इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत